________________
सूत्र - १, नवमः किरणः
६०३
कर्मयोग्यपद्गलानामेव ग्रहेण तत्सम्बन्धस्य तत्र विरहान्न क्षतिः, रागादिगुणयोगाद्धि जीवः कायादियोगेन कर्मवर्गणायोग्यपुद्गलस्कन्धानादाय कर्मरूपतया परिणमय्याऽऽत्मसात्करोति नान्य इति, आत्मप्रदेशैरित्यनेन जीवस्स्वप्रदेशावगाढमेव दलिकं गृह्णाति न त्वनन्तरपरम्परप्रदेशावगाढं, तत्राऽपि एकस्मिन् जीवप्रदेशे यदवगाढं ग्रहणप्रायोग्यं दलिकं तदेकमपि सर्वैरेवात्मप्रदेशैर्गृह्णाति तस्य सर्वप्रदेशानां शृंखलावयवानामिव परस्परं संबद्धत्वात्, व्याप्रियमाणे चैकप्रदेशेऽनन्तरपरम्परतया तद्रव्यग्रहणाय सर्वप्रदेशानामपि व्याप्रियमाणत्वात्तथा सर्वत्रापि सर्वप्रदेशेष्वपि सर्वान् ग्रहणप्रायोग्यानवगाढान् स्कन्धान्सवैरेवाऽऽत्मप्रदेशैर्गृह्णातीत्यप्यर्थस्सूचितः । ननु कर्मैव नास्ति कुतस्तस्य जीवप्रदेशैस्सम्बन्ध इति चेन्न, आत्मा स्वरूपेण शश्वज्ज्ञानवान् तत्स्वभावत्वात्, यो यत्स्वभावस्स शश्वत्तद्वान् यथोष्णस्वभावो वह्निश्शश्वदौष्ण्यवान् ज्ञानस्वभावश्चाऽऽत्माततस्सोऽपि शश्वत्तद्वानित्यनुमानेन शश्वज्ज्ञानवतः स्वगोचरज्ञा प्रतिबन्धदर्शनेनतत्प्रतिबन्धकज्ञानावरणादिकर्मसिद्धेः, भूताविष्टपुरुषस्य स्वज्ञानप्रतिबन्धकभूतवत् । तच्च कर्मपौद्गलिकमेव, नात्मगुणरूपं अमूर्तेरनुग्रहोपघाताभावात् आकाशं ह्यमूर्तं दिगादीनाममूर्त्तानां नानुग्राहकं न वोपघातकञ्च दृष्टं तथैवामूर्तं कर्म कथममूर्तस्यात्मनोऽनुग्रहोपघातयोर्हेतुर्भवेत् । न च तथापि कथं मूर्तेन कर्मणाऽमूर्तस्यात्मनो बन्धो नहि पुद्गलेनामूर्तेन अमूर्तीनामाकाशादीनामनुग्रहोपघातौ दृष्टावितिवाच्यम्, आत्मनः कर्मसम्बन्धस्यानादित्वेनैकान्तिकामूर्त्तत्वासिद्धः । अत एवामूर्तस्य ज्ञानस्य कथं मूर्तेन ज्ञानावरणीयेन प्रतिबन्ध इति शंकापि परास्ता कथञ्चिन्मूर्तादात्मनो ज्ञानस्य सर्वथा भेदाभावेन तस्याऽपि कथञ्चिन्मूर्तत्वात् । एवञ्च निखिलकर्मात्मकस्य कर्माधारभूतस्य सर्वेषामौदारिकादिशरीराणां कारणभूतस्य प्रवाहतोऽनादिरूपस्य आमोक्षं जीवाविनाभूतस्य कार्मणशरीरस्य मिथ्यात्वादिप्रसूतस्य सिद्धौ तच्छरीरयुक्तो जीव: कर्मप्रायोग्यवर्गणा औदारिकादिवर्गणाश्च गृह्णन् योगवान् कषायस्नेहानुलिप्तः कर्मरजोभिरौदारिकादिशरीरैश्च कथञ्चिदभेदेन सम्बध्यते, अत एव च
१. अखिलज्ञेयज्ञातृस्वभावस्यात्मनो ज्ञानं सप्रतिबन्धकं, स्वगोचरज्ञानप्रतिबन्धदर्शनात् भूताविष्टपुरुषज्ञानवत् . इत्यनुमाने तेन भूसाविष्टपुरुषज्ञानप्रतिबन्धकभूतवत् निखिलज्ञेयज्ञातृस्वभावस्यात्मनोऽपि ज्ञानस्य प्रतिबन्धकं कर्म सिद्ध्यति तेन च कार्मणशरीरमारभ्यते, तदभावे औदारिकादिशरीरसम्बन्धासिद्धेः, न हि मूर्तामूर्तयोर्घटाकाशयोरिवौदारिकादिशरीरात्मनोः परस्परानुप्रवेशस्सम्भवति । न च कथं कार्मणशरीरस्यात्मनामूर्तेन सम्बन्धः, अनादिकालादात्मना कथञ्चित्तादात्म्यस्याभ्युपगम्यमानत्वेन तत्र पर्यनुयोगा सम्भवात् । जीवकर्मसंयोगस्यानादित्वेऽपि बीजाइकुयोर्मध्येऽनिवर्तितकार्यस्य कस्यचिन्नाशः तत्समाननाशवत् तपस्संयमाद्यपायात्स व्यवच्छिद्यत इति बोध्यम् ॥