________________
नवम किरणः अथोक्त आगन्तुककर्मनिरोधकस्संवरो बद्धकर्मविध्वंसिका निर्जरा च, तत्र किमात्मकः कर्मणां बन्धः केन वा स इत्याकांक्षायामुपोद्घातसङ्गत्या बद्धकर्मणामित्यादिनिर्जरालक्षणेन बन्धस्य स्मृतत्वात्प्रसङ्गसङ्गत्याऽवसरसङ्गत्या वा बन्धं निरूपयितुकामः प्रथमं बन्धं लक्षयति
आत्मप्रदेशैश्शुभाशुभकर्मसम्बन्धो बन्धः ।१।
आत्मप्रदेशैरिति । सहार्थे तृतीया, आत्मप्रदेशैस्सह शुभानां पुण्यरूपाणामशुभानां पापात्मकानाञ्च कर्मणां पुद्गलविशेषाणां सम्बन्धो नीरक्षीरवत्परस्पराश्लेषः कथञ्चिद्भेदाभेदरूपस्तदतिरिक्तसंबन्धाभावात् सम्बन्धनरूपत्वाद्वन्ध इत्यर्थः । आत्मना सहैव सम्बन्धानां कर्मपुद्गलानां सम्बन्धो बन्ध उच्यते न घटादिना पुद्गलसम्बन्धस्येति सूचयितुमात्मेत्युक्तं, प्रदेशेन सहाऽपि बन्ध इति सूचयितुं प्रदेशैरिति । अत्र शुभाशुभकर्मसम्बन्धस्यैवबन्धरूपत्वं विवक्षितं, न तु शुभाशुभात्मककर्मवर्गणानामित्यभिप्रायं सूचयितुं शुभाशुभकर्मसम्बन्ध इति, अत एव पुण्यपापाभ्यां बन्धस्य पृथगुपादानं कृतम् । वस्तुतः कर्मणश्शुभरूपत्वमशुभरूपत्वञ्चेति द्वैविध्यमेव, उभयविधेनाऽपि कर्मणा सम्बन्धो बन्धो भवतीति सूचयितुं शुभाशुभेति, कर्मपदेन कर्मयोग्यपुद्गला ग्राह्याः, जीवग्रहणपूर्वं तेषां कर्मपरिणामाभावात् । शुभाशुभकर्मपदेनोत्तरप्रकृतिबोधात्तस्यैव बन्धो लक्षितो न मूलप्रकृतिबन्धस्तथाचाऽव्याप्तिस्तत्र स्यात्तद्वारणायात्मप्रदेशैः कर्मसम्बन्धो बन्ध इत्येव लक्षणशरीरं विज्ञेयम् । अयञ्च भावबन्ध उच्यते । यस्तु प्रयोगबन्धो विस्रसाबन्धश्च द्रव्यबन्धरूपस्स नेहविवक्षितोऽप्रकृतत्वात् । आत्मप्रदेशैः पुद्गलसम्बन्धस्य न बन्धत्वं, मुक्तात्मना जीवेन सह पुद्गलसम्बन्धसत्त्वात्, पुद्गलानां व्यापकत्वात् लोकस्याञ्जनचूर्णपूर्णसमुद्गकवत्पुद्गलैः परिपूर्णत्वात् कर्मपदोपादाने च
१. प्रयोगेण भावबन्धो द्रव्यबन्धश्च भवति तत्र प्रयोगजन्यो द्रव्यबन्धो नेह विवक्षितस्तेन भावबन्धस्य प्रयोगजन्यत्वेऽपि न क्षतिरितिभावः ॥