________________
५७८
तत्त्वन्यायविभाकरे
कर्तृत्वं युज्यते, पर्यायपर्यायिणोर्भेदाच्चास्य करणत्वमपि । एकविषयस्थिरतापादनमिति । "एको-ऽन्यार्थेऽसहाये च प्रथमे केवले तथे" ति कोशादेकशब्दस्य बह्वर्थत्वेऽपि संख्यावाच्यत्रैक शब्दः । वीर्यविशेषाद्धि निराबाधे स्थाने प्रज्वालिता दीपशिखेव चेतस एकस्मिन्विषये स्थिरतापादनं अनियतक्रियार्थस्य नियतक्रियाविशेषकर्तृत्वेनावस्थापनम्, तच्च वाक्काययोरपि निरोध एवेति प्रोक्तं योगनिरोधपूर्वकेति वाक्कायनिरोधपूर्वकेत्यर्थः, अथवा मनोवाक्काय-निरोधपूर्वकेति तदर्थः, चेतश्शब्दस्य चिन्तापरपर्यायस्य ज्ञानमर्थः, तस्यैव बैकस्मिन्नर्थे स्थापनं ध्यानमुच्यते व्यग्रत्वे च तस्य ज्ञानत्वमेव नतु ध्यानत्वं, तथा च योगत्रयनिरोधपूर्वकं ज्ञानस्यैकविषयस्थिरतापादनं ध्यानमिति फलितार्थः । व्यापकमिदं लक्षणं छद्मस्थानां केवलिनाञ्च ध्यानेष्विति सूचयितुमुक्तं योगनिरोध इति, योगनिरोधात्मकं केवलिनां ध्यान-मप्येतादृशमेवेत्यर्थः । तत्रापि योगत्रयनिरोधपूर्वकं ज्ञानस्यैकविषयस्थिरतापादनस्य सत्त्वात् । नन्वेकस्मिन्नर्थे चित्तस्यैकक्रियाकर्तृत्वेन यद्यवस्थापनत्वस्यैव ध्यानत्वं तटर्थव्यञ्जनयोगसंक्रान्तिषु अर्थसङ्क्रमे द्रव्यात्पर्याये पर्यायाच्च द्रव्ये सङ्क्रमरूपे शुक्लध्यानविशेषेऽव्याप्तमेकविषय-कत्वाभावादिति चेन्मैवम्, एकशब्दस्य प्राधान्यवाचित्वात्, अस्ति हि सङ्क्रमे तस्य तस्य प्राधान्यम् । तदिदं ध्यानान्तर्मोहूर्तिकमेव, न दिवसमासादिपरिमाणं, ततःपरं दुर्ध्यानत्वाद् इन्द्रियोपघातप्रसङ्गात् । अत एव न प्राणापानविनिग्रहो ध्यानं, तदुद्भतवेदनाप्रकर्षेण शरीरपातप्रसङ्गात् । ध्यानञ्चेदं गुप्त्यादिभिर्भवति । अन्यसंहननिनां तावत्कालमध्यवसाय-धारणसामर्थ्याभावादुत्तमसंहननवानेवाधिकारी, उत्तमसंहननानि वज्रर्षभनाराचवज्रनाराचनारा-चार्धनाराचरूपाणीति ॥
ध्यानस्व३५नुं वानભાવાર્થ - યોગના નિરોધપૂર્વક ચિત્તની એક વિષયમાં સ્થિરતા કરવી, તે “ધ્યાન' કહેવાય છે, યોગનિરોધરૂપ ધ્યાન કેવલીઓને હોય છે.
વિવેચન - ધ્યાન શબ્દ વિવક્ષાના ભેદથી ભાવસાધન-કફૂંસાધન-કરણસાધનરૂપ છે. ત્યાં ધ્યેય પ્રત્યે અવ્યાવૃત્ત (અનિવૃત્ત) ચિત્તના ભાવ (ક્રિયા) માત્રથી કથનમાં ધ્યાતિ એટલે ધ્યાન (ચિંતનવિશેષ), આ
१.तथाच मनएकाग्रतालम्बनं ध्यानं, ध्यानाभ्यामक्रिया भावना उक्तप्रकारद्वयरहिता या मनश्चेष्टा सा चिन्तेति सूच्यते । २. योगनिरोध एव केवलिनो ध्यानं न तु चित्तावस्थानं, चित्तस्यैवाभावात् योगाश्चौदारिकादिशरीरसंयोगसमुत्था आत्मपरिणामविशेषव्यापारा एव । ३. सप्तसप्ततिलवप्रमाणः कालविशेषो मुहूर्त तदन्तर एवध्यानं छद्मस्थानां, तत्परतो भावना चिन्ता वा भवेत् बहुवस्तुसंक्रमे सति सूचिरमपि ध्यानप्रवाहो वा भवेन्न त्वेकमेव ध्यानं दिवसादिमानं भवेदिति भावः ॥