________________
५०८
तत्त्वन्यायविभाकरे
'पातीताना. तिन्द्र माहि३५ ६श प्रारना ४८५व्यवहारथी रहित 'पातात' उपाय छ, કેમ કે સઘળા રૈવેયકો અને અનુત્તરો અહમિન્દ્ર રૂપે પ્રસિદ્ધ છે, એમ ભાવ જાણવો. તથાચ (૨૬) છવ્વીશ વૈમાનિકો જાણવા.
अथ ज्योतिष्कादिदेवभेदानाह
चन्द्रसूर्यग्रहनक्षत्रतारकाः पञ्च ज्योतिष्काः । पिशाचभूतयक्षराक्षसकिन्नरकिम्पुरुषमहोरगगन्धर्वा अष्टविधा व्यन्तराः । असुरनागसुपर्णविद्युदग्निद्वीपोदधिदिक्पवनस्तनितकुमारभेदेन दशविधा भवनपतयः । ६६ ।
चन्द्रेति । नवत्यधिकसप्तशतयोजनानि भूभागावं तारकविमानप्रस्तारः । ततो दशयोजनानामुपरि सूर्यविमानप्रस्तारः । ततोऽशीतियोजनानामूर्ध्वञ्चन्द्रविमानप्रस्तारः । तदुपरि विंशतियोजनान्यारुह्य नक्षत्रग्रहाणां विमानप्रस्तारः । एतद्विमानवर्तिनोऽपि चन्द्रादय उच्यन्ते । ते च द्विविधा मनुष्यक्षेत्रवर्तिनो मानुषोत्तरपर्वतात्परतो यावत्स्वयम्भूरमणसमुद्रं वर्तिनश्चेति । तत्र प्रथमे मेरोः प्रादक्षिण्येन सर्वदा भ्रमणशीलाः, अपरे च सदावस्थानस्वभावाः, अत एव घण्टावत्स्वस्थानस्था एव तिष्ठन्ति । ज्योतिष्का इति, द्योतयन्ति जगत् प्रकाशयन्तीति ज्योतींषि विमानानि, तेषां लोका ज्योतिष्काः, तेषु भवा अपि ज्योतिष्का इति भावः । अथ तृतीयदेवभेदान्व्यन्तरानाह पिशाचेति । देवत्वावान्तरतत्तन्नामकर्मोदयप्रयुक्ता एते देवभेदा व्यन्तराः, विविधमन्तरं शैलान्तरं कन्दरान्तरं वनान्तरं वाऽऽश्रयरूपं येषां ते व्यन्तराः, विगतं अन्तरं विशेषो मनुष्येभ्यो येषां ते वा व्यन्तराः, मनुष्यानपि चक्रवर्तिवासुदेवप्रभृतीन् भृत्यवदुपचरन्ति केचिद्व्यन्तरा इति मनुष्येभ्यो विगतान्तरा इति विग्रहः । चतुर्थदेवभेदानाहासुरेति । कुमारशब्दोऽसुरादिभिः प्रत्येकं योज्यः । एते हि देवाः कान्तदर्शनास्सुकुमारा मृदुमधुरललितगतयश्शृङ्गाराभिजातरूपविक्रियाः कुमारवच्चोद्धतरूपवेषभाषाऽऽभरणप्रहरणावरणपातयानवाहका उल्बणरागाः क्रीडनपराश्चेत्यतः कुमारा उच्यन्ते । भवनपतय इति । भवनानां पतयस्तन्निवासित्वात्स्वामिनो भवनपतयः । नागकुमाराद्यपेक्षया बाहुल्यतो भवननिवासित्वं द्रष्टव्यम् । प्रायो हि ते भवनेषु कदाचिदावासेषु वसन्ति । असुरकुमारास्तु प्राचुर्येणावासेषु कदाचिद्भवनेषु । बहिर्वृत्तान्यन्तस्समचतुरस्राण्यधःकर्णिकासंस्थानानि भवनानि, कायमानस्थानीया महामण्डपा विचित्रमणिरत्नप्रभाभासितसकलदिक्चक्रा आवासा इति, विस्तरस्त्वन्यत्र निभालनीयः ।।