________________
सूत्र - १, प्रथम किरणे न्याय्यो बन्धपूर्वकत्वान्मुक्तेरिति वाच्यम्, संसारकारागारावरुद्धस्य विना मोक्षकारणोपदेशमाश्वासनासम्भवात् । कुतीर्थिकप्रणीतमोक्षकारणनिराकरणार्थत्वाच्चेति दिक् ।।
अत एव सर्वं वाक्यं सावधारणमितिन्यायेन सम्यक्श्रद्धासंविच्चरणान्येव मुक्त्युपाया इति मूलार्थः । तत्र चोद्देश्यविधेयभावस्य कामचारतया सम्यक्छ्रद्धादीनामुद्देश्यत्वे तत्रैव कारयोगे सम्यक्श्रद्धादीन्येव मोक्षोपाया नान्य इत्यन्ययोगव्यवच्छेदस्य, विधेयेन सह एवकारस्य च सम्बन्धे सम्यक्श्रद्धादीनि मुक्त्युपाया एवेत्ययोगव्यवच्छेदस्य च लाभः । श्रद्धादौ सम्यक्त्वं यथावदवस्थितार्थपरिच्छेदित्वं, तच्च निसर्गश्रद्धायामधिगमश्रद्धायाञ्च वर्तत एव, आद्यायां निमित्तान्तरनिरपेक्षतया द्वितीयायाञ्च गुर्वाधुपदेशान्तरसापेक्षतयेति विशेषः । श्रद्धा-आस्थारूपा दृष्टिः, सा चेन्द्रियानिन्द्रियार्थोपलब्धिः सा च सम्यग्रूपाऽव्यभिचारिणी, इदमेव तत्त्वं-परमार्थो न भवतीतर इत्येवंरूपा, नयप्रमाणविकल्पहेतुको जीवादिपदार्थयाथात्म्यावगमः सम्यक्संवित् । अष्टविधकर्मनिवृत्तिं प्रत्युद्यतस्य ज्ञानवतस्सामायिकादिसदसत्क्रिया प्रवृत्तिनिवृत्तिलक्षणं मूलोत्तरगुणशाखाप्रशाखं सम्यक्चरणम् । यस्य जीवस्य मिथ्यादर्शनपुद्गलोदयस्तस्य श्रद्धासंविच्चरणानां मुक्ति प्रत्यनुपायत्वेन व्यभिचारवारणाय सम्यक्त्वं तेषां विशेषणमुपात्तम् । उत्तरोत्तरस्य सत्त्वे पूर्वपूर्वस्यावश्यम्भावनियमप्रकाशनाय श्रद्धासंविच्चरणानां तथाक्रमविन्यासो विहितः । यत्र च स्वयंबुद्धादीनां झटिति सम्यक्संविदुदयस्तत्रापि निसर्गसम्यग्श्रद्धास्त्येवेति न तत्त्वरुचिलक्षणसम्यक् द्धाया व्यभिचारः । ननु पूर्वसत्त्वे उत्तरसत्त्वस्यानियमो यथा सम्यग्दर्शनसत्त्वे स्यान्नवा सम्यक्संविदिति, तदनुचितं, अज्ञानपूर्वकश्रद्धानप्रसङ्गात्, अविज्ञातेषु जीवादिषु श्रद्धानासम्भवेन सम्यक्श्रद्धाया अभावप्रसङ्गात् मिथ्याज्ञाननिवृत्तावुत्पन्नायामपि श्रद्धायां ज्ञानालाभे आत्मनो ज्ञानोपयोगाभावप्रसङ्गाच्चेति चेन्न यावति ज्ञाने ज्ञानमित्येतत्परिसमाप्यते तावत एवायत्योक्तेः, उपशमक्षयोपशमक्षयात्मककारणत्रयजन्यसम्यक्श्रद्धातः क्षयक्षयोपशमात्मककारणद्वयजन्यसम्यक्संविदो भेदोऽस्त्येव कारणभेदात्, सम्यक्श्रद्धायास्सर्वद्रव्यपर्यायविषयकत्वात्, श्रुतात्मकसम्यक्संविदश्च सर्वद्रव्यविषयकत्वे- सति कतिपयपर्यायविषयकत्वादपि तयोर्भेदः । समुदितानामेषां मुक्त्युपायत्वमिति सूचयितुं द्वन्द्वसमासः कृतः । मोचनमष्टविधकर्मभ्यः पृथग्भावो मुक्तिःमुल मोचन इतिधातो वे क्तिप्रत्ययात् । तस्या उपायाः साधनानि, सम्यक् द्धादिभिस्समानाधिकरण्यादुपायशब्दाद् व्यक्तिबहुत्वप्रयुक्तं बहुवचनम् । ननु सम्यक्श्रद्धादिभ्य इतरविनिर्मुक्तेभ्यो मुक्तिर्न भवत्येव, यथाहि भेषजेन, रोगापनयनार्थिनो रोगिणस्तत्र श्रद्धाया