________________
तत्त्वन्यायविभाकरे रोगापहारकत्वज्ञानस्य तदभ्यवहारक्रियाप्रवृत्तेश्च विरहे नैव भवति रोगापनयस्तत्कथं त्रिष्वेककारणताबोधकमेकवचनं विहायोपायशब्दाद्व्यक्तिबहुत्वप्रयुक्तं बहुवचनमङ्गीकृतं, तथा च सति प्रत्येकं कारणताप्राप्तिप्रसङ्गः स्यादिति चेत्सत्यम्, प्रोक्तमेव तथा पूर्वाचार्यैः 'सम्यग्दर्शनज्ञानचारित्राणि मोक्षमार्ग' इति, अत्र तु समासादेव तत्प्राप्त्या समस्तपदसामानाधिकरण्यानुरोधाद् बहुवचनमादृतम्, अत एवैकस्यैव सम्यग्दर्शनस्योत्पत्तौ निसर्गाधिगमयोद्वर्योर्हेतुत्वं मा प्रसाङ्क्षीदिति मन्वा रुमास्वातिवाचकमुख्यैनिसर्गाधिगमाभ्यामित्यनुक्त्वा 'निसर्गादधिगमाद्वा' इत्युक्तं टीकाकृद्भिरपि समासाकरणस्य प्रयोजनमप्येवमेवोक्तम् । न च तथा सति 'तत्र तत्त्वानि जीवाजीवपुण्यपापाश्रवसंवरनिर्जराबन्धमोक्षा नवेत्यादावपि समुदायस्यैव तत्त्वप्राप्तिर्न पुनः प्रत्येकमिति वाच्यं, प्रत्येकं तत्प्रापकस्य नवशब्दस्य तत्र सत्त्वात् । समुदायसमुदायिनोः कथञ्चिदभेदात्, कथञ्चिद्भेदेऽपि वा प्रत्येकावृत्तेस्समुदायावृत्तित्वेन प्रत्येकमपि कारणता मभ्युपेत्य तथोक्तेः, प्रत्येकं स्वरूपयोग्यतारूपकारणतासत्त्वादितरविरहे फलोपधायकत्वलक्षणकारणसत्त्वप्रयुक्तकार्योत्पत्तिप्रसङ्गस्यापादयितुमशक्यत्वात् । फलोपधायकत्वलक्षणकारणत्वाभिप्रायेण मोक्षमार्ग इति त्रित्वावच्छेदेनैककारणत्वबोधकैकवचनस्यादृतत्वेनाविरोधात् । चरणसत्त्वे ज्ञानदर्शनयोरवश्यम्भावित्वेनानन्यथासिद्धनियतपूर्ववृत्तिचरणेनैव कार्यनिर्वाहे श्रद्धासंविदोरन्यथासिद्धिप्रसङ्गपरिहाराय प्रत्येकमपि कारणताबोधकत्वस्यावश्यकत्वात् । सम्पूर्णदर्शनस्यास्य मोक्षासाधारणकारणे रत्नत्रये तात्पर्येण तत्र गुरुत्वाभिमानेन बहुवचनस्योक्तत्वाच्चेति ॥
ननु क्षायिकसम्यक्श्रद्धादीनामेव मुक्तिहेतुत्वं तत्कथं सम्यक्श्रद्धादीनां केवलानां मुक्त्युपायत्वमुच्यते अतएव हि सम्यग्दर्शनज्ञानचारित्राणि मोक्षसाधनमित्यनुक्त्वा मोक्षमार्ग इत्युमास्वातिवाचकमुख्यैः सूत्रितम्, व्याख्यातञ्च भाष्यटीकाकृद्भिस्समस्तप्रत्यपायवियुतः पाटलिपुत्रगामिमार्गवदेष त्रिविधः पन्था इति तन्न युक्तम्, एतानि समस्तानि मोक्षसाधनानीति मोक्षमार्गपदस्य स्वयमेव सूत्रकृद्भिर्व्याख्यातत्वात् । साधनत्वातिरिक्तस्य मार्गपदार्थस्य वक्तुमशक्यत्वाच्च, न च क्षायिकसम्यग्दर्शनाद्यतिरिक्तदर्शनादीनां व्यवहितत्वेनान्यथासिद्धत्वान्न साधनत्वमिति वाच्यम् । व्यवहितस्यापि कारणत्वाक्षतेः, अन्यथा कृत्स्नकर्मक्षयस्यैव कारणत्वप्रसङ्गात् । विशेषेण सामान्यस्यान्यथा सिद्धत्वासंभवाच्च, नहि नीलदण्डेन दण्डस्यान्यथासिद्धत्वं कस्यापि सम्मतम् । न च कृत्स्नकर्मक्षय एव मोक्षस्तं प्रति क्षायिकसम्यक्त्वादीनामव्यवहितत्वेन कारणत्वं, तदितरेषान्तु व्यवहितत्वेन मार्गत्वमेवेति वाच्यम् । तस्यात्म