________________
तत्त्वन्यायविभाकरे સમાધાન- જેમ વહ્નિના અદર્શનવાળા સ્થળમાં ધૂમ રૂપ કાર્યના દર્શનથી વહ્નિ રૂપ કારણ અનુમિત થાય છે, તેમ મંગલ વગરના ગ્રંથમાં નિર્વિઘ્ન સમાપ્તિ રૂપ કાર્યના દર્શનથી વિધ્વધ્વંસજનક મંગલરૂપ કારણ અવશ્ય અનુમિત થાય છે.
એવં ચ મંગલવાળા ગ્રંથમાં વિધ્વધ્વંસ અને સમાપ્તિનું સાહચર્ય જોવાથી, મંગલરહિત ગ્રંથમાં વિનવ્વસનું અનુમાન અને વિધ્ધધ્વંસજનક મંગલનું અનુમાન નિર્વિવાદ છે, તેથી વિધ્વધ્વંસ પ્રત્યે મંગલ હેતુ છે. વિજ્ઞવૅસત્વેન મંગલત્વેન કાર્ય-કારણભાવની સિદ્ધિ સમજવી. ઉપરોક્ત વિષયનો શબ્દવિસ્તાર રૂપ વિસ્તાર બીજા મુક્તાવલી આદિ ગ્રંથમાં છે.
तिभंगलवा. ननु ग्रन्थेऽस्मिन्निरूप्यन्ते तत्त्वानि न्यायाश्च तत्तत्त्वज्ञानायेति तु युक्तं, परं तज्ज्ञानं किं वैषयिकसुखार्थं निर्वाणप्राप्तिलब्धाऽऽत्मसुखार्थं वेत्याशङ्कायां सर्वेषु पुरुषार्थेषु मोक्षस्यैव प्राधान्यतया तत्र च कृतस्यैव यत्नस्य वस्तुतः फलवत्त्वात् तदेवास्य ग्रन्थस्य तज्ज्ञानद्वारा परमं फलम् । तदुपायोपदेशस्यैव वास्तविकहितोपदेशत्वेनोपदेशरूपेऽस्मिन् ग्रन्थे प्रथमं तदुपाय एव वक्तव्य इति मनसि निधायाऽऽह
सम्यक्श्रद्धासंविच्चरणानि मुक्त्युपायाः । १ । सम्यगिति । श्रद्धासंविच्चरणानां द्वन्द्वानन्तरं सम्यगितिपदेन कर्मधारयः, द्वन्द्वादी द्वन्द्वान्ते च श्रूयमाणपदस्य प्रत्येकमभिसम्बन्धात्सम्यक्श्रद्धासम्यक्संवित् सम्यक्चरणानां लाभः । मुक्त्युपाया:-मुक्तेरुपाया इति मुक्त्युपायाः नियतपुंलिङ्गोऽयमुपायशब्दः । मोक्षोपायोद्देशेन सम्यक्श्रद्धादीनि विधीयन्ते । ननु पुरुषार्थेषु प्रधानत्वात् मोक्ष एव प्रथमं प्रदर्शनीयस्तत्कुतस्तदुपाय: प्रदर्शित इति चेन, उपायोपदेशमन्तरेण भूतार्थकल्पस्य मोक्षोपदेशस्य वैयर्थ्यात्। विषयद्धिसंयोगसमुत्थस्य सुखस्य दुःखोत्तरत्वेन क्षणिकदुःखप्रतीकारमात्रत्वेन च तदुद्वेगात्तद्धेतून् परिजिहीर्षन्तं परमसुखानन्दनिमित्ताभिलाषुकं प्रति तदुपदेशस्यैव न्याय्यत्वाच्च । अभ्युदयहेतु धर्मार्थकामोपदेशो हि दुःखनिवृत्त्यर्थिनां न तदत्यन्ताभावप्रयोजक इति तस्य वस्तुतो न हितोपदेशत्वम् । ननु मुक्तिप्रसिद्धौ तदुपायोपदेशस्य युक्तियुक्तत्वेन तस्या एव निरूपणमादावुचितमितिचेन्न जिज्ञासुजिज्ञासाप्रमार्जनाशक्यत्वात्, तथा सति हि मुक्त्युपायजिज्ञासोर्जिज्ञासाया निवृत्तिरकृता भवेत् । न च कथं न तेन जिज्ञासिता मुक्तिरिति वाच्यम्, लोकस्य भिन्नरुचित्वात् कस्यापि मुक्तौ विप्रतिपत्त्यभावाच्च । न च तत्रापि भावाभावादिरूपेणास्त्येव विप्रतिपत्तिादिनामिति वाच्यम् । सर्वेषां साक्षात्परम्परया वा कृत्स्नकर्मविप्रमोक्षात्मिकाया मुक्तेरविगानेनाभिप्रेतत्वात्, न च प्राङ्मुक्त्युपायनिर्देशाद्वन्धकारणनिर्देशो