________________
४५८
तत्त्वन्यायविभाकरे रूपत्वादिति भावः, एवमग्रेऽपि । उक्तञ्च भगवतीटीकायां "एतेषु पीडैव वेदनीयोत्था, तदधिसहनन्तु चारित्रमोहनीयक्षयोपशमादिसम्भवमधिसहनस्य चारित्ररूपत्वादिती" ति, सहनस्य केवलं चारित्रमोहनीयक्षयोपशमादिजन्यत्वेन वेदनीयचारित्रावरणक्षयोपशमजन्या इत्यनुक्त्वा केवलं वेदनीयक्षयोपशमजन्या इत्युक्तं, क्षुधादौ तज्जये च कारण प्रदर्शनाय तथोपन्यासः कृतः । ज्ञानावरणवेदनीयमोहनीयाऽन्तरायात्मकप्रकृतिचतुष्टयोदय एव द्वाविंशतीनां जेयानां क्षुधादीनामवतारो यथायोगं भवत । एते पञ्चैव परीषहा वेदनीये सति चारित्रमोहनीयक्षयोपशमादिजन्या इति न वाच्यमन्येषामपि भावात् किन्तु क्रमं परीषहाणमुद्दिश्यैवमुक्तमिति भावः ।। अथावस्त्रपरीषहमाह-सदोषेति । उद्गमादिदोषविशिष्टवस्त्रादिपरिहारेणेत्यर्थः । इदञ्चाल्पमूल्यानामल्पवस्त्राणां दुष्टानामग्राह्यताज्ञापनाय । अल्पमूल्येति । इदञ्च निर्दुष्टबहुमूल्याल्पवस्त्रपरिग्रहव्युदासाय । अन्यथा परिग्रहादिदोषः प्रसज्येत । अल्पवस्त्रेति । इदञ्च निर्दुष्टाल्पमूल्यनिरर्थकबहुवस्त्रसङ्ग्रहनिराकरणाय । एवञ्च सर्वथा वस्त्रशून्यतायामेवाऽवस्त्रपरीषहत्वं निराकृतं । लक्षणं स्पष्टम्, अस्य संभवो नवमगुणस्थानं यावत् । चारित्रमोहनीयस्य सम्भवात् । नाग्रिमगुणस्थानकेषु, तत्र मोहनीयस्य क्षीणत्वादिति ॥ अरतिपरीषहमभिधत्ते-अप्रीतीति । सूत्रोपदेशेन विहरतस्तिष्ठतो वा संयमविषयकधृतिवैपरीत्यमुत्पद्यते, एतादृशाप्रीतिप्रयोजकसंयोगसम्भवेऽपि सम्यग्धर्माराधनरतिमता भवितव्यं तथासत्यरतिविजयो भवेदिति भावः । अप्रीतिप्रयोजकसंयोगसमवधानाऽसमवधानकालीनसाम्यभावावलम्बनत्वं लक्षणम् । क्षुत्परीषहादिव्युदासाय कालीनान्तम् । नवमगुणस्थानं यावदियमरतिः ॥ स्त्रीपरीषहमाह-कामबुद्धयेति । कामबुद्ध्या स्त्रीणामङ्गप्रत्यङ्गसंस्थानहसितललितविभ्रमादिचेष्टानां यद्विलोकनं चिन्तनं वा, ताभ्यां सर्वथा विरमणमित्यर्थः । कामप्रयुक्तस्त्र्याद्यङ्गप्रत्यङ्गादिचेष्टावलोकनचिन्तनप्रवृत्तिराहित्यं लक्षणम् । धर्मोपदेशबुद्ध्या स्त्र्याद्यङ्गाद्यवलोकने दोषाभावात्कामबुद्धयेत्युक्तम् । अवलोकनमात्रोक्तौ चिन्तनस्य, तन्मात्रोक्तौ चावलोकनस्य व्युदासासम्भवादुभयोर्ग्रहणम् । नवमगुणस्थानं यावत्कामबुद्ध्या स्त्र्याद्यङ्गाद्यवलोकनादिसम्भवः चारित्रमोहनीयोदयसम्भवात्, अग्रिमेषु स्थानेषु न संभवः मोहनीयस्य क्षपणादुपशमाद्वा तस्मादयं परीषहश्चारित्रमोहनीये सति चारित्रमोहनीयक्षयोपशमजन्य इत्यभिप्रायेणाह-एते चेति । अवस्त्रारतिस्त्रीपरीषहाश्चेत्यर्थः । चारित्रमोहनीय-क्षयोपशमजन्या इति यथाक्रमं जुगुप्साया अरतिमोहनीयस्य पुंवेदस्य च क्षयादुपशमाद्वा परीषहा एते भवन्तीति भावः॥