________________
४४७
सूत्र - ३२, सप्तम: किरणः
कायोत्सर्गभाजो वा यस्सर्वथा कायचेष्टापरिहारस्साऽपि कायगुप्तिरित्यर्थस्तदुक्तम् 'कायक्रियानिवृत्ति: कायोत्सर्गे शरीरगुप्तिस्स्या' दिति । यद्यपि कायव्यापारो मनोव्यापारसंसृष्ट एव, तथापि कायचेष्टायास्साक्षात्कायेनैव निष्पादितत्वात् बहिरुपलक्ष्यमाणत्वाच्च प्राधान्येन विवक्षा ॥ वाग्गुप्तेस्स्वरूपमाह-अर्थवदिति । न केवलं वचोनियमनमात्रं वचोगुप्तिः, सार्थकभ्रूविकारादिसहितवचोनियमस्य वाग्गुप्तित्वापत्तेरित्यत आहार्थवदित्यादि । कस्मैचित्प्रयोजनाय कृतैर्भूविकारादिसङ्केतैर्हंकारादिप्रवृत्तिभिश्च रहितमित्यर्थः । आद्येनादिना नेत्रमुखकरादिनर्त्तनस्य, द्वितीयेन च शरलोष्टोत्क्षेपादेर्ग्रहणम् । यद्वा शास्त्रानुसारिभाषणमपि वाग्गुप्तिर्भवतीत्याहशास्त्रविरुद्धभाषणशून्यमिति । ननु शास्त्रविरुद्ध भाषणशून्यमित्यनेन शास्त्रानुसारिभाषणरूपवचोलाभेन योगनिरोद्धुस्सर्वथा मौनरूपायां गुप्तौ लक्षणमिदमव्याप्तमतिव्याप्तञ्च भाषासमितावित्यत्राह-अनेनेति । तथा च नियमनशब्दस्य शास्त्रानुसारिवचनेऽवचने च रूढत्वेन नाव्यासिं । सम्यग्भाषणञ्चेति । सम्यगुपयुक्तस्य लोकागमाविरोधेन भाषणमित्यर्थः, ननु भाषासमितौ कथमतिव्याप्तिपरिहार इत्यत्राह - भाषासमिताविति । एवशब्देनाभाषणस्य व्युदासः । भाषणाभाषणरूपत्वाद्वाग्गुप्तेर्भाषणमात्रस्वरूपभाषासमित्यपेक्षया वैलक्षण्यं व्यापकत्वं चात एव शास्त्रानुसारिभाषणरूपमित्यनुक्त्वा शास्त्रविरुद्धभाषणशून्यमित्युक्तम् । उक्तञ्च 'अनृतादिनिवृत्तिर्वा मौनं वा भवति वाग्गुप्ति' रिति ॥ अथ मनोगुप्तिमाह - सावद्येति । अवद्यं गर्हितं पापं तेन सहितो यस्संकल्पश्चिन्तनमार्त्तरौद्रध्यायित्वं चित्तचाञ्चल्यं वा तस्य निरोधोऽकरणमित्यर्थः । सावद्यसंकल्पनिरोधत्वं लक्षणम्, अनेन च निरवद्यसंकल्पस्सरागसंयमादौ, संसारहेतौ च संकल्पनिरोधश्च मनोगुप्तिरिति लभ्यते । न सर्वथा मनोनिरोधोऽसम्भवात् योगनिरोधावस्थामन्तरेण तदसम्भवात् ॥
ભાવાર્થ – યોગના, સન્માર્ગમાં જવા દ્વારા, ઉન્માર્ગના ગમનથી અટકવા દ્વારા આત્માનું સંરક્ષણ, એ 'गुप्ति' छे. ते गुप्ति अय-वयन-मनना ३ये त्र प्रहारनी छे. सुवामां-जेसवामां-सेवा-भूवामां यासवामां येष्टानो नियम, खे ‘अयगुप्ति.' उपसर्ग-परीषर होय } न होय, तो पए। शरीरमां निरपेक्षता- निःस्पृहता અને યોગનિરોધનો સર્વથા ચેષ્ટ્રાપરિહાર પણ ‘કાયગુપ્તિ.’ સાર્થક ભૂવિકાર આદિ, સંકેત-હુંકાર આદિ પ્રવૃત્તિરહિત-શાસ્ત્રવિરુદ્ધ ભાષણ-શૂન્ય વાણીનો નિયમ, એ ‘વચનગુપ્તિ.' આ કથન દ્વારા સર્વથા વાણીનિરોધ અને સમ્યભાષણ એમ મેળવાય છે. ભાષાસમિતિમાં સમ્યગ્ (નિરવઘ આગમાનુસારિ) भाषण ४ छे. सावध संल्पनो निरोध, से 'मनोगुप्ति. '
વિવેચન – કાય-વચન-મનરૂપ યોગનું જે સન્માર્ગમાં ગમન અને ઉન્માર્ગગમનથી નિવારણ છે, તે जन्नेथी आत्मानुं संरक्षा, ये 'गुप्ति'- प्रेम अर्थ समवो.