________________
४४६
तत्त्वन्यायविभाकरे योगस्येति । कायवाङ्मनोरूपस्य योगस्य ये सन्मार्गगमनोन्मार्गगमननिवारणे ताभ्यामात्मसंरक्षणं गुप्तिरित्यर्थः । योगसम्बन्धिसन्मार्गोन्मार्गप्रवृत्त्यप्रवृत्तिप्रयुक्तात्मसंरक्षणत्वं लक्षणं, तेन वाचि मनसि च गमनागमनयोरसत्त्वेन नाव्याप्तिशङ्का । रागद्वेषापरिणतपुरुषकर्तृकत्वमपि निवेशनीयम्, तेन निबिडबन्धनबद्धतस्करादिकर्तृकयोगसम्बन्धिनिग्रहस्य व्युदासः । सर्वथा कायादिचेष्टानिरोधस्याप्यत्र विवक्षितत्वेन गुप्तेव्यापकत्वान्न व्याप्येर्यासमित्यादावतिव्याप्तिशङ्कासम्भवः, परिमितकालविषयस्सर्वयोगनिग्रहोऽपि गुप्तिस्तत्रासमर्थस्य कुशलेषु प्रवृत्तिस्समितिरिति भेदात् । तस्या विभागमाचष्टे सा चेति । तत्र कायगुप्ति निरूपयति शयनेति । शयनादिविषयककायक्रियानियमत्वं लक्षणं, नेत्रपरिस्पन्दादिस्वाभाविकक्रियायाः कुतूहलेन कृतस्य नियमस्य वारणाय शयनादिविषयकेति । शयनादिविषयकमानसिक नियमवारणाय कायक्रियेति । उच्छृखलपुरुषानुष्ठितशयनादिविषयकनियमवारणाय नियमपदेन शास्त्रीयो नियमो ग्राह्यः । तथा च निशीथिनीप्रथमयामादनन्तरं गुर्वनुज्ञानात्सप्रमाणायां वसतौ स्वावकाशनिरीक्षणप्रमार्जनपूर्वकं संस्तरणपट्टद्वयमास्तीर्य सपादं कायमूर्ध्वमधश्च प्रमृज्यानुज्ञापितसंस्तारकावस्थानोऽनुष्ठितसामायिकविधिर्वामबाहूपधान आकुंचितजानुस्ताम्रचूडवद्विवहायसि प्रसारितजङ्गः प्रमार्जितपृथ्वीतलन्यस्तपादो वा संकोचसमये भूयः प्रमार्जितसन्दंशक उद्वर्तनकाले च रजोहरणेन प्रमुष्टकायो नात्यन्ततीव्रनिद्रश्शयीत । यत्र भुवि विवक्षितमासनं तत्रावेक्षणप्रमार्जने विधाय बहिर्निषद्यामास्तीर्य निविशेत, निविष्टोऽप्याकुञ्चनप्रसारणादिकं पूर्वेणैव विधिना कुर्वीत, वर्षादिषु च वृसिकापीठिकादिकमनेनैव विधिनावेक्ष्य प्रमृज्य च तत्र संनिवेशनं कुर्वीत । दण्डकोपकरणचेष्टाभोजनादिविषयौ निक्षेपादानावपि वीक्षणप्रमार्जनपूर्वको निर्दुष्टौ स्याताम् । गमनमपि प्रयोजनवतो युगमात्रप्रदेशविन्यस्तदृष्टेर्जीवपरित्यागेन मन्दं मन्दं पदं न्यसतः प्रशस्तं स्यादित्यादिरूपाः कर्तव्याकर्त्तव्यविषयाश्शास्त्रीय व्यवस्था अवगन्तव्याः, एवमन्येऽपि नियमाः शास्त्रीयाः प्रदर्श्यन्ते उपसर्गेति, उपसर्गा देवादिकृतोपद्रवाः परीषहा अग्रे वक्ष्यमाणाः क्षुधादयः, तेषां भावेऽभावे वा स्वीये शरीरे यन्नरपेक्ष्यमभिमानाभावस्सा कायगुप्तिरित्यर्थः, सति ह्यभिमाने तद्वारणायासती कायचेष्टा स्यादेवेति नियमभङ्गस्स्यादिति भावः । अपरमपि नियममाह-योगेति । योगः शरीरवाङ्मनोरूपस्तस्य निरोद्धः केवलिनः
१. गुप्तेर्व्यापकत्वञ्च यस्समितस्स नियमानुगुप्तः, गुप्तयो हि प्रतीचाराप्रतीचारोभयरूपाः प्रतीचारो नाम कायिको वाचिको व्यापारः, तथा च यस्समितः सम्यग्गमनभाषणादिचेष्टायां प्रवृत्तस्य गुप्तोऽपि भवति । यस्तु कायवाचौ निरुध्य शुभं मन उदीरयन् धर्मध्यानाधुपयुक्तचित्तो भवति स गुप्त उच्यते न तु समितः केवलाप्रतीचार रूपत्वात्तस्येति बोध्यम् ।।