________________
तत्त्वन्यायविभाकरे
सयोगिकेवलीत्युच्यते, केवलिनोऽपि मनोवाक्कायजा योगा भवन्ति । तत्र काययोगो गमना - गमननिमेषोन्मेषादिषु । वाग्योगो धर्मदेशनादिषु । मनोयोगोऽनुत्तरदेवैर्मनःपर्यववद्भिर्वा मनसा पृष्टस्य मनसैव देशनायां, ते हि भगवत्प्रयुक्तानि मनोद्रव्याणि अवधिज्ञानेन मनः पर्यवज्ञानेन वा पश्यन्ति, दृष्ट्वा च ते विवक्षितवस्त्वालोचनाकारान्यथानुपपत्त्याऽलोकस्वरूपादिकमपि बाह्यमर्थं पृष्टमवगच्छन्तीति । सयोगिकेवल्ययं तीर्थकृदतीर्थकृच्च भवति । येन हि पूर्वस्मिन् भवेऽर्हत्सिद्धप्रवचनगुरुस्थविरबहुश्रुततपस्विषु वात्सल्यादिभिर्विशतिपुण्यस्थानकैस्तीर्थ
I
४३६
कृत्कर्माजितं तस्यात्रोदयात्रिभुवनाधिपतिर्जिनेन्द्रस्तीर्थकरश्चतुस्त्रिंशदतिशयैर्युक्तस्तीर्थ प्रवर्तको भवति । यस्य तु न तीर्थकृत्कर्म स इतरः सामान्यकेवली, केवलिनामत्र गुणस्थाने स्थितिमाहइदञ्चेति । चतुरशीतिलक्षेण चतुरशीतिलक्षे गुणिते लब्धा संख्या पूर्वमुच्यते तेषां कोटि:पूर्वकोटिस्तत्प्रमाणं देशोनमस्य गुणस्थानस्य कालमानमित्यर्थः । देशोनेति, किञ्चिदूनवर्षनवकलक्षणदेशोनेत्यर्थः । जघन्यकालमानमाह - जघन्यत इति । अत्रेदमवसेयं यस्याऽऽयुषस्स्थितिर्वेदनीयादिकर्मणस्सकाशान्यूना भवति तदा स कर्मणां समीकरणार्थं समुद्धातं करोति नेतरः । तत्र वेदनादिभिरेकीभावमुपगतेन जन्तुना बहूनां वेदनीयादिकर्मप्रदेशानां कालान्तरानुभवयोग्यानामुदीरणाकरणेनाकृष्योदये प्रक्षिप्यानुभूय च निर्जरीकरणं समुद्धातः, स सप्तधा वेदनाकषायमरणवैक्रियतैजसाहारककेवलिभेदात् । वेदनासमुद्घातादयष्षडनुक्रमम
सातवेदनीयकषायान्तर्मुहूर्त्तावशिष्टायुर्वैक्रियशरीरनामतैजसशरीरनामाहारकशरीरनामकर्माश्रयाः प्रत्येकमान्तमौहूर्त्तिकाः, केवलिसमुद्धातस्तु सदसद्वेद्याशुभशुभनामोच्चनीचैर्गोत्रकर्माश्रयोऽष्टसामयिकः । आहारककेवलिसमुद्धातातिरिक्ताः पञ्चैकेन्द्रियाणां एष्वेव वैक्रियवर्जिताश्चत्वारो विकलेन्द्रियाणामसंज्ञिपञ्चेन्द्रियाणाञ्च सर्वे च मनुष्याणां भवन्ति । अन्तर्मुहूर्त्तावशेषायूः केवली वेदनीयायुषोस्तुल्यताकरणाय नानादिक्षु आलोकान्तमात्मप्रसारणया दण्डकपाटमन्थानान्तरालपूरणानि चतुर्भिस्समयैः कुर्वन् व्यापीभूत्वा चतुर्भिश्चोपसंहरन् स्वशरीरस्थो भवति परं तदानीं मनोवाग्योगौ न व्यापारयति । तत्र प्रथमाष्टमसमययोरौदारिकाङ्गयोगः, द्वितीयषष्ठसप्तमसमयेषु औदारिकमिश्रकाययोगः तृतीयचतुर्थपञ्चमसमयेषु च केवलं कार्मणकाययोगो भवति । अत एव तदानीमनाहारकश्च समुद्धाताच्च निवृत्तो योगत्रयमपि व्यापारयति । ततो योगनिरोधाय ध्यानं ध्यायति । अत्रस्थो जीव एकविधबन्धकः, ज्ञानान्तरायदर्शनचतुष्कोदयव्यवच्छेदाद् द्विचत्वारिंशत्प्रकृतीनां वेदयिता, निद्राप्रचलाज्ञानान्तरायदर्शनचतुष्करूपषोडशप्रकृतीनां सत्ताव्यवच्छेदात्पञ्चाशीतिसत्ताको भवति ॥