________________
४१२
तत्त्वन्यायविभाकरे
पूर्वोक्तकरणत्रयनिर्वर्त्तनेन विशुद्धया वर्धमानोऽनिवृत्तिकरणाद्धाया असंख्येयेषु भागेषु गतेष्वन्तरकरणं करोति, तच्च कुर्वन् सम्यक्त्वस्य प्रथमस्थितिमन्तर्मुहूर्त्तमानां स्थापयति मिथ्यात्वमिश्रयोश्चावलिकामात्रं उत्कीर्यमाणञ्च दलिकं त्रयाणामपि सम्यक्त्वस्य प्रथमस्थितौ प्रक्षिपति, मिथ्यात्वमिश्रयोः प्रथमस्थितिदलिकं सम्यक्त्वस्य प्रथमस्थितिदलिकमध्ये स्तिबुकसंक्रमेण संक्रमयति, सम्यक्त्वस्य पुनः प्रथमस्थितौ विपाकानुभवतः क्रमेण क्षीणायामुपशमसम्यग्दृष्टिर्भवति, उपरितनदलिकस्य चोपशमना त्रयाणामपि मिथ्यात्वादीनामनन्तानुबन्धिनामुपरितनस्थितिदलिकस्येवावसेया, एवमुपशान्तदर्शनत्रिकः प्रमत्ताप्रमत्तपरिवृत्तिशतानि कृत्वा चारित्रमोहमुपशमयितुकामः पुनरपि यथाप्रवृत्त्यादीनि त्रीणि करणानि करोति, केवलमिह यथाप्रवृत्तिकरणमप्रमत्तगुणस्थानेऽपूर्वकरणञ्चापूर्वकरणगुणस्थाने अनिवृत्तिकरणञ्चानिवृत्तिबादरसंपरायगुणस्थानके अपूर्वकरणे च स्थितिघातादिभिर्विशुद्धय ततोऽनन्तरसमयेऽनिवृत्तिकरणे प्रविशति, अनिवृत्तिकरणाद्धायाश्च संख्येयेषु भागेषु गतेषु दर्शनसप्तकवर्जितानामेकविंशतेर्मोहनीयप्रकृतीनामन्तरकरणं करोति, तत्र यस्य वेदस्य संज्वलनस्य चोदयोऽस्ति तयोः स्वोदयकालमानां प्रथमस्थितिं करोति शेषाणान्त्वेकादशकषायाणामष्टानां च नोकषायाणामावलिकामात्रं, वेदत्रिकसंज्वलनचतुष्कोदयकालमांनमन्तरकरणगतदलिकप्रक्षेपस्वरूपञ्च कर्मप्रकृतिटीकातोऽवसेयम्, अन्तरकरणञ्च कृत्वा ततो नपुंसकवेदमन्तर्मुहूर्तेनोपशमयति, तथाहि प्रथमसमये स्तोकं, द्वितीयसमये ततोऽसंख्येयगुणं, एवञ्च प्रतिसमयमसंख्येयगुणं तावदुपशमयति यावच्चरमसमयं, परप्रकृतिषु च प्रतिसमयमुपशमितदलिकापेक्षया तावदसंख्येयगुणं प्रक्षिपति यावद् द्विचरमसमयम्, चरमसमये तूपशम्यमानं दलिकं परप्रकृतिषु संक्रम्यमाणदलिकापेक्षयाऽसंख्येयगुणं द्रष्टव्यम् । उपशान्ते च नपुंसकवेदे स्त्रीवेदं प्रागुक्तविधिनाऽन्तर्मुहूर्त्तेनोपशमयति, ततोऽन्तर्मुहूर्त्तेन हास्यादिषट्कं तस्मिंश्चोपशान्ते तत्समयमेव पुरुषवेदस्य बन्धोदयोदीरणाव्यवच्छेदः, ततः समयोनावलिकाद्विकेन पुंवेदमुपशमयति, ततो
१. अनन्तानुबन्धिवर्जानां द्वादशानां कषायाणां नव नोकषायाणामित्यर्थः ॥ २. स्त्रीवेदनपुंसकवेदयोरुदयकालस्सर्वस्तोकः, स्वस्थाने तु परस्परं तुल्यः ततः पुरुषवेदस्य संख्येयगुणः ततस्संज्वलनक्रोधस्य विशेषाधिकः, ततोऽपि संज्वलनमानस्य विशेषाधिकः, ततोऽपि संज्वलनमायायास्ततोऽपि संज्वलनलोभस्येति स्वोदयकालप्रमाणं वेद्यम् । अन्तरकरणसत्कदलिकप्रक्षेपविधिश्च येषां कर्मणां तदानीं बन्ध उदयश्च विद्यते तेषामन्तरकरणसत्कदलिकं प्रथमस्थितौ द्वितीयस्थितौ च प्रक्षिपति, यथा पुरुषवेदारूढः पुरुषवेदस्य । येषां केवलमुदय एव तेषामन्तरकरणसत्कदलिकं प्रथमस्थितावेव प्रक्षिपति, यथा स्त्रीवेदस्य । येषान्तु केवलं बन्ध एव तेषां तद्दलिकं द्वितीयस्थितावेव प्रक्षिपति, यथा संज्वलनक्रोधारूढस्संज्वलनमानादीनाम् । येषां पुनर्नबन्धो नाप्युदयस्तेषां दलिकं परप्रकृतौ प्रक्षिपति यथा द्वितीयतृतीयकषायाणामिति ॥