________________
सूत्र - २४, सप्तमः किरणः
४११
जायत इति क्षपकश्रेणिः ॥ अथोपशमश्रेणिस्त-दारम्भकोऽप्रमत्तसंयत एव, उपशमश्रेणिपर्यवसाने त्वप्रमत्तप्रमत्तसंयतदेशविरताविरतानामन्यतमो भवति, अन्ये त्वविरतदेशविरतप्रमत्ताप्रमत्तसंयतानामन्यतमोऽनन्तानुबन्धिनः कषायानुपशमयति दर्शनत्रिकादिकं तु संयम एव वर्तमान इत्याहुः । तत्र प्रथममनन्तानुबन्धिनामुपशमनाऽभिधीयते, अविरतादीनामन्यतमोऽन्यतमस्मिन् योगे वर्तमानस्तेज:पद्मशुक्ललेश्यान्यतमलेश्यायुक्तः साकारोपयोगयुक्तोऽन्तःसागरोपमकोटीकोटिस्थितिसत्कर्मा करणकालात्पूर्वमप्यन्तर्मुहूर्तं यावद्विशुद्ध्यमानचित्तसन्ततिरवतिष्ठते, तथावतिष्ठमानश्च परावर्त्तमानाः प्रकृतीः शुभा एव बध्नाति, नाऽशुभाः, प्रतिसमयञ्चाऽशुभानां कर्मणामनुभागमनन्तगुणहान्या करोति शुभानाञ्चाऽनन्तगुणवृद्ध्या, स्थितिबन्धेऽपि च पूर्णे सत्यन्यं स्थितिबन्धं पूर्वपूर्वस्थितिबन्धापेक्षया पल्योपमासंख्येयभागहीनं करोति, पूर्णे चान्तर्मुहूर्ते क्रमेण प्रत्येकमान्तर्मुहूर्तिकानि त्रीणि यथाप्रवृत्त्यादीनि करणानि करोति, चतुर्थी तूपशमाद्धां, करणवक्तव्यता च सर्वापि कर्मप्रकृतेरवसेया, अनिवृत्तिकरणाद्धायाश्च संख्येयेषु भागेषु गतेषु एकस्मिन् भागेऽवतिष्ठमानेऽनन्तानुबन्धिनामधस्तादावलिकामानं मुक्त्वाऽन्तर्मुहूर्तमानमन्तरकरणमभिनवस्थितिबन्धाद्धासमेनान्तर्मुहूर्तेन करोति, अन्तरकरणदलिकं चोत्कीर्यमाणं बध्यमानासु परप्रकृतिषु प्रक्षिपति प्रथमस्थित्यावलिकागतं च दलिकं स्तिबुकसंक्रमेण वेद्यमानासु परप्रकृतिषु प्रक्षिपति, अन्तरकरणे च कृते द्वितीयसमयेऽनन्तानुबन्धिन उपशमिता भवन्ति, उपशमना नाम यथा रेणुनिकरः सलिलबिन्दुनिवहैरभिषिच्याभिषिच्य द्रुघणादिभिर्निकुट्टितो निःस्पन्दो भवति तथा कर्मरेणुनिकरोऽपि विशुद्धिवारिपूरेण परिषिच्य परिषिच्यानिवृत्तिकरणरूपद्रुघणनिकुट्टितः संक्रमणोदयोदीरणानिधत्तनिकाचनाकरणानामयोग्यो भवति, अन्ये त्वनन्तानुबन्धिनामुपशमनां न मन्यन्ते किन्तु विसंयोजनां-क्षपणां, सा च प्रागेवोक्ता, संप्रति दर्शनत्रिकस्योपशमना भण्यते, इह क्षायोपशमिकसम्यग्दृष्टिः संयमे वर्तमानोऽन्तर्मुहूर्तेन दर्शनत्रिकमुपशमयति, उपशमयंश्च
१. याः प्रकृतयोऽन्यस्याः प्रकृतेर्बन्धमुदयं वा विनिवार्य स्वकीयं बन्धमुदयमुभयं वा दर्शयन्ति ताः परावर्त्तमानाः । तत्र ज्ञानावरणपञ्चकमन्तरायपञ्चकं दर्शनावरणचतुष्टयं पराघाततीर्थकरोच्छ्वासमिथ्यात्वभयजुगुप्सागुरुलघूपघातनिर्माणतैजसवर्णादिचतुष्ककार्मणानि चेत्येकोनत्रिंशत्प्रकृतयो बन्धमुदयञ्चाश्रित्यापरावर्त्तमानाः, आसां बन्धस्योदयस्य वा शेषप्रकृतिभिर्बध्यमानाभिर्वेद्यमानाभिर्वा हन्तुमशक्यत्वात् । शेषा बन्धमाश्रित्यैकनवतिसंख्या उदयापेक्षया सम्यक्त्वसम्यमिथ्यात्वसहितास्त्रिनवतिः परावर्त्तमानाः ॥ षोडश कषाया निद्रापञ्चकं च स्वोदये सजातीयप्रकृत्युदयनिरोधात्परावर्त्तमानाः स्थिरशुभास्थिराशुभप्रकृतयो बन्धं प्रति परावर्त्तमानाः ॥ इतरास्तु बन्धोदयाभ्यामपि परावर्त्तमाना इति ॥