________________
सूत्र - २४, सप्तमः किरणः
४१३
युगपदन्तर्मुहूर्तमात्रेणाप्रत्याख्यानप्रत्याख्यानावरणक्रोधौ, तदुपशान्तौ च तत्समयमेव संज्वलनक्रोधस्य बन्धोदयोदीरणाव्यवच्छेदः, ततस्समयोनावलिकाद्विकेन संज्वलनक्रोधमुपशमयति ततोऽन्तर्मुहूर्तेनाऽप्रत्याख्यानप्रत्याख्यानावरणमानौ युगपदुपशमयति, तदुपशान्तौ च तत्समयमेव संज्वलनमानस्य बन्धोदयोदीरणाव्यवच्छेदः, ततस्समयोनावलिकाद्विकेन संज्वलनमानमुपशमयति, ततो युगपदन्तर्मुहूर्तेनाऽप्रत्याख्यानप्रत्याख्यानावरणमाये उपशमयति, तदुपशान्तौ च तत्समयमेव संज्वलनमायाया बन्धोदयोदीरणाव्यवच्छेदः, ततोऽसौ लोभवेदको जातः, लोभवेदनाद्धायाश्च त्रयो विभागास्तद्यथा-अश्वकर्णकरणाद्धा किट्टिकरणाद्धा किट्टिवेदनाद्धा च, तत्राद्ययायोस्त्रिभागयोर्वर्तमानः संज्वलनलोभस्य द्वितीयस्थितेः सकाशाद्दलिकमाकृष्य प्रथमस्थितिं करोति वेदयते च, अश्वकर्णकरणाद्धायाञ्च वर्तमानः प्रथमसमय एव त्रीनपि लोभानप्रत्याख्यानप्रत्याख्यानावरणसंज्वलनरूपान् युगपदुपशमयितुमारभते । विशुद्ध्या वर्धमानश्चापूर्वाणि स्पर्धकानि करोति संज्वलनमायायाश्च बन्धादौ व्यवच्छिन्ने सति ततः समयोनावलिकाद्विकेन संज्वलनमायामुपशमयति, एवमश्वकर्णकरणाद्धायां गतायां किट्टिकरणाद्धायां प्रविशति, तत्र च पूर्वस्पर्धकेभ्योऽपूर्वस्पर्धकेभ्यश्च द्वितीयस्थितिगतं दलिकं गृहीत्वा प्रतिसमयमनन्ताः किट्टीः करोति । किट्टिकरणाद्धायाश्चरमसमये युगपदप्रत्याख्यानप्रत्याख्यानावरणलोभावुपशमयति तदुपशान्तौ च तत्समयमेव संज्वलनलोभबन्धव्यवच्छेदो बादरसंज्वलनलोभोदयोदीरणाव्यवच्छेदश्च, ततोऽसौ सूक्ष्मसंपरायो भवति, तदा चोपरितनस्थितेः सकाशात्कतिपयाः किट्टीः समाकृष्य प्रथमस्थिति सूक्ष्मसंपरायाद्धातुल्यां करोति वेदयते च, सूक्ष्मसम्परायाद्धा चाऽन्तर्मुहूर्त्तमाना, शेषं च सूक्ष्म किट्टीकृतं दलिकं समयोनावलिकाद्विकबद्धं चोपशमयति, सूक्ष्मसम्परायाद्धायाश्च चरमसमये संज्वलनलोभ उपशान्तो भवति, ततोऽनन्तरसमयेऽसावुपशान्तमोहो भवति, स च जघन्येनैकसमयमुत्कर्षतोऽन्तर्मुहूर्तं यावदुपतिष्ठते तत ऊर्ध्वं नियमादसौ प्रतिपतति, प्रतिपातश्च द्विधा भवक्षयेणाद्धाक्षयेण च, तत्र भवक्षयो म्रियमाणस्य, अद्धाक्षय उपशान्ताद्धायां समाप्तायां । अद्धाक्षयेण च प्रतिपतन् यथैवारूढस्तथैव प्रतिपतति, यत्र यत्र बन्धोदयोदीरणा व्यवच्छिनास्तत्र तत्र प्रतिपतता सता तेन ता अद्धाक्षयेणारभ्यन्त इति यावत्, प्रतिपतंश्च तावत्प्रतिपतति यावत्प्रमत्तसंयतगुणस्थानं, कश्चित्पुनस्ततोऽप्यधस्तनं गुणस्थानद्विकं याति कोऽपि सास्वादनभावमपि, यः पुनर्भवक्षयेण
१. पश्चानुपूर्व्या पतितः प्रमत्तगुणस्थानमागत्य तत्र विश्रम्य प्रमत्ताप्रमत्तगुणस्थानकयोः प्रभूतानि सहस्राणि यावत्परिवृत्तीः कृत्वा कश्चिद्देशविरताविरतसम्यग्दृष्टिगुणस्थानद्विकमपि गच्छेदिति भावः । २. येषां मतेनाऽनन्तानुबन्धिनामुपशमना भवति तेषां मतेन कश्चित्सास्वादनभावमपि गच्छेदिति भावः ।।