________________
सूत्र - २४, सप्तमः किरणः
४०७ तर्हि कश्चिद्वैमानिकेष्वेव बद्धायुष्कश्चारित्र-मोहनीयोपशमार्थमपि यतते, न शेषभवेषु बद्धायुष्कः । यदि पुनरबद्धायुः क्षपकश्रेणिमारभते ततः सप्तके क्षीणे नियमादनुपरतपरिणाम एव चारित्रमोहनीयक्षपणाय यतते । यतमानश्च तत्र यथाप्रवृत्त्यादीनि त्रीणि करणानि करोति, अप्रमत्तगुणस्थाने यथाप्रवृत्तिकरणमपूर्वगुणस्थाने-ऽपूर्वकरणमनिवृत्तिबादरसम्परायेऽनिवृत्तिकरणम् । तत्रापूर्वकरणे स्थितिघातादिभिरप्रत्याख्यानप्रत्याख्यानावरणकषायाष्टकमनिवृत्तिकरणाद्धाप्रथमसमये पल्योपमासंख्येयभागमात्रस्थितिकं यथा भवेत्तथा क्षपयति । अनिवृत्तिकरणाद्धायाश्च संख्येयेषु भागेषु गतेषु स्त्यानद्धित्रिकनरकतिर्यग्गतिनरकतिर्यगानुपूर्येकद्वित्रिचतुरिन्द्रियजातिस्थारातपोद्योतसूक्ष्मसाधारणानां षोडशप्रकृतीनामुद्वलनासंक्रमेणोद्वल्यमानानां पल्योपमासंख्येयभागमात्रा स्थितिर्जाता, ततो बध्यमानासु प्रकृतिषु तानि षोडशापि कर्माणि गुणसंक्रमेण प्रतिसमयं प्रक्षिप्यमाणानि निःशेषतोऽपि क्षीणानि भवन्ति, इहाप्रत्याख्यानप्रत्याख्यानावरणकषायाष्टकं पूर्वमेव क्षपयितुमारब्धं परं तन्नाद्यापि क्षीणं केवलमपान्तराल एव पूर्वोक्तं प्रकृतिषोडशकं क्षपितं पश्चात्तदपि कषायाष्टकमन्तर्मुहूर्तेन क्षपयतीत्येष सूत्रादेशः । अन्ये त्वाहुः षोडशकर्माण्येव पूर्वं क्षपयितुमारभते केवलमपान्तरालेऽष्टौ कषायान् क्षपयति पश्चात् षोडशकर्माणीति । ततोऽन्तर्मुहूर्तेन नवानां नोकषायाणां चतुर्णां संज्वलनानाञ्चाऽन्तरकरणं करोति । तच्च कृत्वा नपुंसकवेददलिकमुपरितनस्थितिगतमुद्वलनविधिना क्षपयितुमारभते । तच्चाऽन्तर्मुहूर्तेन पल्योपमासंख्येयभागमात्रं भवति, ततःप्रभृति बध्यमानासु प्रकृतिषु गुणसंक्रमेण तद्दलिकं प्रक्षिपति, तच्चैवं प्रक्षिप्यमाणमन्तर्मुहूर्तेन निःशेषं क्षीणम् । अधस्तनस्थितिदलिकं च यदि नपुंसकवेदेन क्षपकश्रेणिमारूढस्ततोऽनुभवतः क्षपयति, अन्यथा त्वावलिकामात्रं तद्भवति, तच्च वेद्यमानासु प्रकृतिषु स्तिबुकसंक्रमेण संक्रमयति । तदेवं क्षपितो नपुसंकवेदः । ततोऽन्तर्मुहूर्तेन स्त्रीवेदोऽप्यनेनैव क्रमेण क्षिप्यते, ततः षट् नोकषायान् युगपत्क्षपयितुमारभते, ततः प्रभृति च तेषामुपरितनस्थितिगतं दलिकं न पुरुषवेदे संक्रमयति किन्तु संज्वलनक्रोध एव, एतेऽपि च पूर्वोदितविधिना क्षिप्यमाणा अन्तर्मुहूर्तेन निःशेषं क्षीणास्तत्समय एव च पुंवेदस्य बन्धोदयोदीरणाव्यवच्छेदः, समयोनावलिकाद्विकबद्धं मुक्त्वाऽशेषदलिकक्षयश्च, ततोऽसाविदानीमवेदको जातः, क्रोधं च वेदयतस्तस्य क्रोधाद्धायास्त्रयो विभागा भवन्ति,
१. नपुंसकवेदेन श्रेणिमनारूढश्चेदित्यर्थः । २. पुंवेदिनः प्रारम्भकस्यैतत् । यदा नपुंसकवेदी प्रारम्भकः तदा प्रथमं स्त्रीवेदनपुंसकवेदौ युगपत्क्षपयति, तत्क्षयसमय एव पुंवेदबन्धव्यवच्छेदः । ततः पुंवेदहास्यषट्के युगपत्क्षपयति । यदा स्त्रीवेदी प्रारम्भकः तदा प्रथमं नपुंसकवेदं ततस्त्रीवेदं क्षपयति तत्क्षयसमकालमेव च पुंवेदबन्धव्यवच्छेदः, ततः पुंवेदहास्यषट्कयोयुगपत्क्षय इति ॥ ३. पुंवेदिन इत्यर्थः ॥