________________
४०८
तत्त्वन्यायविभाकरे अश्वकर्णकरणाद्धा किट्टिकरणाद्धा किट्टिवेदनाद्धा चेति, तत्राश्वकर्णकरणाद्धायां वर्तमानः प्रतिसमयमनन्तान्यपूर्वस्पर्धकानि चतुर्णामपि संज्वलनना-नामन्तरकरणादुपरितनस्थितौ करोति, अथ कमिदं स्पर्धकमुच्यते-इह तावदनन्तानन्तैः परमाणुभिनिष्पन्नान् स्कन्धान् जीवः कर्मतया गृह्णाति तत्र चैकैकस्मिन् स्कन्धे यः सर्वजघन्यरसः परमाणुस्तस्याऽपि रसः केवलिप्रज्ञया छिद्यमानः सर्वजीवेभ्योऽनन्तगुणान् रसभागान् प्रयच्छति अपरस्तानप्येकाधिकानन्यस्तु द्व्याधिकानेवमेकोत्तरयावृद्ध्या ता वन्नेयं यावदन्त्यपरमाणुरभव्यानन्तगुणान् सिद्धानन्तभागेनाधिकान् रसभागान् प्रयच्छति, तत्र जघन्यरसा ये केचन परमाणवस्तेषां समुदायस्समानजातीयत्वादेका वर्गणेत्युच्यते, अन्येषां त्वेकाधिकर-सभागयुक्तानां समुदायो द्वितीया वर्गणा, अपरेषां तु व्यधिकरसभागयुक्तानां समुदायस्तृतीया वर्गणा, एवमनया दिशैकैकरसभागवृद्धानामणूनां समुदायरूपा वर्गणास्सिद्धान्तभागकल्पा अभव्यानन्तगुणा वाच्याः । एतासाञ्च समुदायः स्पर्धकमित्युच्यते । इत ऊर्ध्वमेकोत्तरया निरन्तरया वृद्ध्या प्रवर्धमानः रसो न लभ्यते किन्तु सर्वजीवानन्तगुणैरेव रसभागः, ततस्तेनैव क्रमेण ततःप्रभृति द्वितीयं स्पर्धकमारभयते, एवमेव च तृतीयमेवं तावद्वाच्यं यावदनन्तानि स्पर्धकानि, एतेभ्य एव चेदानी प्रथमादिवर्गणा गृहीत्वा विशुद्धिप्रकर्षवशादनन्तगुणहीनरसाः कृत्वा पूर्ववत्स्पर्धकानि करोति, न चैवंभूतानि पूर्वं कदाचनापि कृतानि ततोऽपूर्वाणीत्युच्यन्ते, अस्यां चाश्वकर्णकरणाद्धायां वर्तमानः पुंवेदं समयोनावलिकाद्विकेन कालेन क्रोधे गुणसंक्रमेण संक्रमयन् चरमसमये सर्वसंक्रमेण संक्रमयति, तदेवं क्षीणः पुंवेदः, अश्वकर्णकरणाद्धायाञ्च समाप्तायां किट्टिकरणाद्धायाञ्च वर्तमानश्चतुर्णामपि संज्वलनानामुपरितनस्थितिदलिकस्य किट्टीः करोति, किट्टयो नाम पूर्वस्पर्धकेभ्यः प्रथमादिवर्गणा गृहीत्वा विशुद्धिप्रकर्षवशादत्यन्तहीनरसाः कृत्वा तासामेकोत्तरवृद्धित्यागेन बृहदन्तरालतया व्यवस्थापनम् । यथा यासामेव वर्गणानामसत्कल्पनयाऽनुभागभागानां शतमेकोत्तरादि वाऽऽसीत् तासामेव विशुद्धिप्रकर्षादनुभागभागानां दशकस्य पञ्चदशकादेश्च व्यवस्थापनमिति । एताश्च किट्टयः परमार्थतोऽनन्ता अपि स्थूलजातिभेदापेक्षया द्वादश कल्प्यन्ते, एकैकस्य कषायस्य तिस्रस्तिस्रः, तद्यथा, प्रथमा द्वितीया तृतीया च, एवं क्रोधेन क्षपकश्रेणि प्रतिपन्नस्य द्रष्टव्यम् । यदा तु मानेन प्रतिपद्यते तदोद्वलनाविधिना क्रोधे क्षपिते सति शेषाणां त्रयाणां पूर्वक्रमेण नव कीट्टी: करोति, मायया चेत्प्रतिपन्नस्तर्हि क्रोधमानयोरुद्वलनविधिना क्षपितयोः सतोः शेषद्विकस्य पूर्वक्रमेण षट् किट्टीः करोति, यदि पुनर्लोभेन प्रतिपद्यते तत उद्वलनविधिना क्रोधत्रिके क्षपिते सति लोभस्य किट्टित्रिकं करोति, एष किट्टिकरणविधिः ॥ किट्टिकरणाद्धायां