________________
४०६
तत्त्वन्यायविभाकरे
पल्योपमासंख्येयभागमात्राणि स्थितिखण्डानि पूर्वपूर्वस्थित्यपेक्षया विशेषतो हीनानि विनाशयति, इत्येवंरूप उद्बलनासंक्रमः । अनिवृत्तिकरणं च प्राप्तो गुणसंक्रमानुविद्धोद्वलनासंक्रमेणाधस्तादावलिकामात्रं मुक्त्वोपरि निरवशेषानन्तानुबन्धिनो विनाशयति, आवलिकामात्रं तु स्तिबुकसंक्रमेण वेद्यमानासु प्रकृतिषु संक्रमयति, ततोऽन्तर्मुहूर्त्तात्परतोऽनिवृत्तिकरणपर्यवसाने शेषकर्मणामपि स्थितिघातरसघातगुणश्रेणयो न भवन्ति, किन्तु स्वभावस्थ एव भवति चतुर्विंशतिसत्कर्मा । तदेवं क्षपिताऽनन्तानुबन्धिचतुष्को दर्शनमोहनीयक्षपणाय यतते, तदारम्भको मनुष्यो जिनकालसम्भवी वर्षाष्टकोपरि वर्त्तमानो वज्रर्षभनाराचसंहननश्च भवति । दर्शनमोहक्षपणार्थं यथाप्रवृत्त्यादीनि त्रीणि करणानि करोति, अनिवृत्तिकरणाद्धायाञ्च वर्त्तमानो दर्शनत्रिकस्य स्थितिसत्कर्म तावदुद्वलनासंक्रमेणोद्वलयति यावत्पल्योपमासंख्येयभागमात्रमवतिष्ठते, ततो मिथ्यात्वदलिकं सम्यक्त्वमिश्रयोः प्रक्षिपति, तच्चैवं, प्रथमसमये स्तोकं द्वीतीयसमये ततोऽसंख्येयगुणमेवं यावदन्तर्मुहूर्त्तचरमसमयं, आवलिकागतं मुक्त्वा शेषं द्विचरमसमयसंक्रमितदलिकादसंख्येय-गुणं संक्रमयति, आवलिकागतन्तु स्तिबुकसंक्रमेण सम्यक्त्वे प्रक्षिपति, एवं मिथ्यात्वं क्षपितम् । ततोऽन्तर्मुहूर्तेन सम्यङ्मिथ्यात्वमप्यनेनैव क्रमेण सम्यक्त्वे प्रक्षिपति, ततस्सम्यङ्मिथ्यात्वं क्षपितम् । ततस्सम्यक्त्वमपवर्त्तयितुं तथा लग्नो यथाऽन्तर्मुहूर्त्तेन तदप्यन्तर्मुहूर्त्तमात्रस्थितिकं जातं, तच्च क्रमेणानुभूयमानमनुभूयमानं सत् समयाधिकावलिकाशेषं जातं, ततोऽनन्तरसमये तस्योदीरणाव्यवच्छेदस्ततो विपाकानुभवेनैव केवलेन वेदयति यावच्चरमसमयं ततोऽनन्तरसमयेऽसौ क्षायिकसम्यग्दृष्टिजीयते । इह यदि बद्धायुः क्षपकश्रेणिमारभते तदाऽनन्तानुबन्धिक्षयानन्तरञ्च मरणसम्भवतो व्युपरमते, ततः कदाचिन्मिथ्यात्वोदयाद्भूयोऽप्यनन्तानुबन्धिन उपचिनोति, तद्वीजस्य मिथ्यात्वस्याविनाशात् । क्षीणमिथ्यादर्शनस्तु नोपचिनोति मिथ्यात्वाभावात् । क्षीणसप्तकः पूर्वबद्धायुराश्रित्य सर्वगतिभाग्भवति यदि तिर्यङ्मनुष्यो वा भवति तदाऽसंख्येयवर्षायुष्केष्वेव । बद्धायुको यदि तदानीं कालं न करोति तथापि सप्तके क्षीणे नियमादवतिष्ठते, न तु चारित्रमोहक्षपणाय यत्नमादधाति, अथ क्षीणसप्तको गत्यन्तरं संक्रामन् कतितमे भवे मोक्षमुपयातीति चेदुच्यते तृतीये चतुर्थे वा भर्व इति । तथा क्षीणसप्तकः पूर्वबद्धायुष्कोऽपि यदि तदानीं कालं न करोति
१. यदि स्वर्गे नरके वा गच्छति तदा स्वर्गभवान्तरितो नरकभवान्तरितो वा तृतीयभवे मोक्षमुपयाति, यदि तु तिर्यक्षु मनुष्येषु वोत्पद्यते तदावश्यमसंख्येयवर्षायुष्केष्वेव न संख्येयवर्षायुष्केषु ततस्तद्भवानन्तरं देवभवं ततश्च्युत्वा मनुष्यभवं ततो मोक्षं यातीति चतुर्थभवे मोक्षगमनम् । इदञ्च प्रायिकं, क्षीणसप्तकस्य कृष्णस्य पञ्चमभवेऽपि मोक्षगमनश्रवणात् ।