________________
सूत्र - २४, सप्तम: किरण:
४०५
प्रथमसमयजघन्याध्यवसायादनन्तगुणविशुद्धं प्रथमसमयोत्कृष्टाध्यवसायस्थानम् । तस्माच्च द्वितीयसमयजघन्याध्यवसायस्थानमनन्तगुणविशुद्धम्, ततश्च तदुत्कृष्टमनन्तगुणविशुद्धमित्येवं यावद् द्विचरमसमयोत्कृष्टाध्यवसायस्थानाच्चरमसमयजघन्याध्यवसायस्थानमनन्तगुणविशुद्धं तस्मादपि तदुत्कृष्टमनन्तगुणविशुद्धमिति । अस्यैव च निवृत्तिबादरसम्परायमिति नामान्तरम् । अनेकजीवानामेतद्गुणस्थानं युगपत्प्रविष्टानां परस्परमध्यवसायस्थानव्यावृत्तेः । एकसमयगतानि चामून्यध्यवसायस्थानानि परस्परं षट्स्थनपतितानीति दिक् ॥ अथ क्षपकश्रेणिरुपशमश्रेणिश्च बोधायोच्यते संक्षेपतः प्रसङ्गात् । वर्षाष्टकोपरि वर्त्तमानो वज्रर्षभनाराचसंहननवान् शुद्धध्यानार्पितमना अविरतदेशविरतप्रमत्ताप्रमत्तसंयतानामन्यतमः पुमान् क्षपकश्रेणिप्रतिपत्तौ भवति । केवलं यद्यप्रमत्तसंयतः पूर्ववित्तर्हि शुक्लध्यानोपगतः शेषस्तु सर्वोऽपि धर्मध्यानोपगतः । सम्प्रति प्रथममनन्तानुबन्धिनां विसंयोजना प्रोच्यते, श्रेणिप्रतिपत्तुरवश्यं पूर्वमनन्तानुबन्धिनो विसंयोजनाया आवश्यकत्वात् । अनन्तानुबन्धिनां विसंयोजकश्चतुर्गतिको जीवस्तत्राऽपि देवो नैरयिको वाऽविरतसम्यग्दृष्टिः, तिर्यक्पञ्चेन्द्रियः सर्वाभिः पर्याप्तिभिः पर्याप्तोऽविरत-सम्यग्दृष्टिर्देशविरतो वा मनुष्यस्त्वविरतसम्यग्दृष्टिर्देशविरतस्सर्वविरतो वा भवति । तत्र यथासम्भवं विशुद्धपरिणामोऽनन्तानुबन्धिनां क्षपणाय यथाप्रवृत्त्यपूर्वानिवृत्तिकरणानि करोति, अन्तरकरणं तु न करोत्यत एव प्रथमस्थितिमपि न करोति, उपशमोऽपि न भवति, तेषां गुणसंक्रमश्चात्रापूर्वकरणप्रथमसमयात्प्रवर्त्तते । तथाहि तादृशसमय एव दलिकमनन्तानुबन्धिनां शेषकषायात्मकपरप्रकृतौ स्तोकं संक्रमयति, द्वितीये समये ततोऽसंख्येयगुणं, तृतीये च ततोऽप्यसंख्येयगुणमेवमेव यावदपूर्वकरणचरमसमयम् । एष गुणसंक्रमः । अपूर्वकरणे उद्बलनासंक्रमानुविद्धगुणसंक्रमेणानन्तानुबन्धिनश्शेषप्रकृतिरूपतया व्यवस्थापनेन विनाशयति । उद्बलनासंक्रमे तु प्रथमतः पल्योपमासंख्येयभागमात्रं स्थितिखण्डमन्तर्मुहुर्त्तेन कालेनोत्कीर्यते । उत्किरणं नाम घनदलान्वितस्याल्पदलोत्तारणं, तदेव चोद्वलनमुच्यते । ततो द्वितीयं स्थितिखण्डं प्रथमस्थितिखण्डाद्विशेषहीनतरं पल्योपमासंख्येयभागमात्रमन्तर्मुहूर्तेन कालेन विनाशयति, एवं प्रत्येकमन्तर्मुहूर्तेन कालेनोत्कीर्यमाणानि
I
१. अनन्तभागवृद्धयसंख्यातभागवृद्धिसंख्यातभागवृद्धि संख्येयगुणवृद्ध्यसंख्येयगुणवृद्धयनन्तगुणवृद्धिरूपषट्स्थानकपतितानीत्यर्थः ॥
२. प्रथमस्थितिखण्डस्य स्थित्यपेक्षया बृहत्तरस्य द्वितीयादिस्थितिखण्डानाञ्च विशेषविशेषहीनानां यद्धातनं तेन निष्पन्नो य उद्बलनासंक्रमस्तदनुविद्ध इत्यर्थः ॥