________________
३७०
तत्त्वन्यायविभाकरे तथाभ्युपगतं, यतो गुप्तिभङ्गे मिथ्यादुष्कृतं प्रायश्चित्तमुक्तम्, अतो न प्रतिपत्तेरप्रतिपत्तिर्गरीयसीति । किञ्च सातिचारादप्यनुष्ठानादभ्यासत: कालेन निरतिचारमनुष्ठानं भवतीति सूरयः । बाह्या अपि 'अभ्यासो हि कर्मणां कौशलमावहति, न हि सकृन्निपातमात्रेणोदबिन्दुरपि ग्राव्णि निम्नतामादधाती'ति, न चाविधिकृताद्वरमकृतमिति युक्तमस्यासूयावचनत्वात्तस्माद्धर्मानुष्ठानं निरन्तरं कार्यमेव, किन्तु तत्कुर्वता सर्वशक्त्या विधौ यतनीयं, इदमेव श्रद्धालोर्लक्षणमिति ॥ प्रेष्यप्रयोगः प्रेष्यानयनं शब्दानुपातनं रूपानुपातनं पुद्गलप्रेरणञ्चेति पञ्चातिचारा द्वितीयशिक्षापदव्रतस्य, प्रेष्यस्य भृत्यादेविवक्षितक्षेत्राद्वहिः प्रयोजनाय व्यापारणं प्रेष्यप्रयोगः । स्वयं हि गमने दिवसप्रहरमुहूर्तादिपरिमाणस्य देशावकाशिकस्य व्रतस्य भङ्गः स्यादित्यन्यस्य प्रेषणं, गमनागमनादिव्यापारजनितप्राण्युपमर्दो मा भूदित्यभिप्रायेण हि तव्रतं गृह्यते स तु स्वयं कृतोऽन्येन वा कारित इति न कश्चित्फले विशेषः, प्रत्युत स्वयं गमने ईर्यापथविशुद्धेर्गुणः, परस्य पुनरनिपुणत्वादीर्यासमित्यभावे दोष इति प्रथमोऽतिचारः । प्रेष्यानयनं विवक्षितक्षेत्राद् बहिःस्थितस्य सचेतनादिद्रव्यस्य प्रेष्येण विवक्षितक्षेत्रे प्रापणम् । स्वयं गमने हि व्रतभङ्गः स्यात् परेण त्वानयने न भङ्ग इति बुद्ध्या यदाऽऽनाययति सचेतनादिद्रव्यं तदाऽतिचार इति द्वितीयः । शब्दानुपातनं क्षुत्कासितादेश्श्रोत्रेऽवतारणम्, यथा विहितस्वगृहवृतिप्राकारादिव्यवच्छिन्नभूप्रदेशाभिग्रहः प्रयोजन उत्पन्ने विवक्षितक्षेत्राबहिर्वतभङ्गभयात्स्वयं गन्तुं बहिस्थितञ्चाह्वातुमशक्नुवन् वृतिप्राकारादिप्रत्यासन्नवर्तीभूय कासितादिशब्दमाह्वानीयानां श्रोत्रेऽनुपातयति, ते च तच्छ्रवणात्तत्समीपमागच्छन्तीति शब्दानुपातननामाऽतिचारः । रूपानुपातनं यथा रूपंशरीरसम्बन्धि, उत्पन्नप्रयोजन: शब्दमनुच्चारयन् आह्वानीयानां दृष्टावनुपातयति, तदर्शनाच्च ते तत्समीपमागच्छन्तीति रूपानुपातननामातिचारः । पुद्गलप्रेरणं पुद्गलाः परमाणवः तत्संघातसमुद्भवा बादरपरिमाणं प्राप्ता लोष्टादयोऽपि, तेषां क्षेपणं, विशिष्टदेशाभिग्रहे हि सति कार्यार्थी परगृहगमननिषेधाद्यदा लोष्टकान् परेषां बोधनाय क्षिपति पातसमनन्तरमेव ते तत्समीपमनुधावन्ति ततश्च तान् व्यापारयतः स्वयमगच्छतोऽप्यतिचारो भवतीति पञ्चमः । अत्राद्यद्वयमव्युत्पन्नबुद्धित्वेन सहसाकारादिना वा, अन्त्यत्रयन्तु मायापरतयाऽतिचारतां यातीति विवेकः । अत्र दिग्व्रतसंक्षेपकरणमणुव्रतादिसंक्षेपकरणस्याप्युलक्षणं तेषामपि संक्षेपस्यावश्यं कर्तव्यत्वादिति विज्ञेयम् । ननु सर्वत्रातिचारा दिग्व्रतसंक्षेपकरणस्यैव श्रूयन्ते न व्रतानन्तरसंक्षेपकरणस्य तत्कथं व्रतान्तरसंक्षेपकरणं देशावकाशिकव्रतमिति चेदुच्यते प्राणातिपातादिव्रतान्तरसंक्षेपकरणेषु वधबन्धादय एवातिचाराः, दिग्व्रतसंक्षेपकरणे तु संक्षिप्तत्वात्क्षेत्रस्य