________________
३७१
सूत्र - १७, सप्तमः किरण:
प्रेष्यप्रयोगादयोऽतिचाराः, भिन्नातिचारसम्भवाच्च दिग्व्रतसंक्षेपकरणस्यैव देशावकाशित्वं साक्षादुक्तमिति ।। अप्रत्युपेक्ष्याप्रमृज्य च संस्तारः, अप्रत्युपेक्ष्याप्रमृज्य चादानं, अप्रत्युपेक्ष्या - प्रमृज्य च हानं, अनादरः, अस्मृतिश्चेति पञ्चातिचाराः तृतीयस्य शिक्षापदव्रतस्य । तत्राप्रत्युपेक्ष्याप्रमृज्य च संस्तारः, संस्तीर्यते प्रतिपन्नपोषधव्रतेन दर्भकुशकम्बली वस्त्रादिरिति संस्तारः, संस्तारशब्दश्च शय्योपलक्षकः, तत्र शय्या - शयनं सर्वाङ्गीणं वसतिर्वा, संस्तारश्चार्धतृतीयहस्तप्रमाणः, स च प्रत्युपेक्ष्य प्रमार्ण्य च कर्त्तव्यः, प्रत्युपेक्षणं चक्षुषा निरीक्षणम्, प्रमार्जनञ्च रजोहरणवस्त्रप्रान्तादिना तस्यैव शुद्धीकरणम् । अथाप्रत्युपेक्ष्याप्रमृज्य च संस्तारकं करोति तदा पोषधव्रतमतिचरतीति प्रथमोऽतिचारः । अप्रत्युपेक्ष्याप्रमार्ण्य चादानं, आदानं यष्टिपीठफलकादीनां ग्रहणम्, तदपि यष्ट्यादीनां निक्षेपस्योपलक्षकं तेनोभयमपि प्रत्युपेक्ष्य प्रमृज्य च कार्यम्, अप्रत्युपेक्षितस्याप्रमार्जितस्यादानं निक्षेपश्चातिचार इति द्वितीयः । अप्रत्युपेक्ष्याप्रमार्ण्य च हानं - उत्सर्गस्त्याग इति यावत्, तच्चोच्च्चारप्रश्रवणखेलसिङ्घाणकादीनां प्रत्युपेक्ष्य प्रमृज्य च स्थंडिलादौ कार्यम्, अप्रत्युपेक्ष्याप्रमृज्य चोत्सर्जनमतिचार इति तृतीयः । इह चाप्रत्युपेक्षणेन दुष्प्रत्युपेक्षणमप्रमार्जनेन च दुष्प्रमार्जनं सङ्गृह्यते, नञः कुत्सार्थस्यापि दर्शनात् यथा कुत्सितो ब्राह्मणोऽब्राह्मण इत्यादिः । अनादरः- अनुत्साहः पोषधव्रतप्रतिपत्तिकर्त्तव्यतयोरिति चतुर्थः । अस्मृतिः अस्मरणं तद्विषयैवेति पञ्चमः ॥ सचित्ते स्थापनं, सचित्तस्थगनं, मत्सरः, काललंघः, अन्यापदेशश्चेति चतुर्थस्य शिक्षापदव्रतस्य पञ्चातिचाराः, तत्र सचित्ते सचेतने पृथिवीजलकुम्भोपचुल्लीधान्यादौ स्थापनं साधुदेयभक्तादेर्निक्षेपणं तच्चादानबुद्ध्या मातृस्थानतो निक्षिपतीति प्रथमः । सचित्तेन कन्द पत्रपुष्पफलादिना तथाविधयैव बुद्ध्या स्थगनं पिधानमिति द्वितीयः । मत्सरः कोपः यथा साधुभिर्याचितः कोपं करोति, सदपि मार्गितं न ददाति अथवाऽनेन तावद्रङ्केण याचितेन दत्तं किमहं ततो न्यून इति मात्सर्याद्ददाति । अत्र परोन्नतिवैमनस्यं मात्सर्यं इति तृतीयः । कालस्य साधूचितभिक्षासमयस्य लंघो-लंघनमतिक्रमः अयं भावः कालं न्यूनमधिकं वा ज्ञात्वा साधवो न ग्रहीष्यन्ति, ज्ञास्यन्ति च यथाऽयं ददातीत्येवं विकल्पतो दानार्थमभ्युत्थानमतिचार इति चतुर्थः । अन्यस्य परस्य सम्बन्धीदं गुडखण्डादीत्यपदेशः व्याजोऽन्यापदेशः अयं भावः परकीयमेतत्तेन साधुभ्यो न दीयत इति साधुसमक्षं भणनं, जानन्तु साधवो यद्यस्यैतद्भक्तादिकं भवेत्तदा कथमस्मभ्यं न दद्यादिति साधुसम्प्रत्ययार्थम् अथवास्माद्दानात् मम मात्रादेः पुण्यमस्त्विति भणनमिति पञ्चमः । इत्येवमतिचारा आभोगेनापि विधीयमाना अतिचारा एवेत्युपासक