________________
३६६
तत्त्वन्यायविभाकरे द्वयोरपि ॥ अनङ्गक्रीडनं, अनङ्गः कामः, स च पुंसः स्त्रीपुंनपुंसकेषु सेवनेच्छा हस्तकर्मादीच्छा वा, वेदोदयात् योषितोपि योषिन्नपुंसकपुरुषासेवनेच्छा हस्तकर्मादीच्छा वा, नपुंसकस्याऽपि नपुंसकपुरुषस्त्रीसेवनेच्छा हस्तकर्मादीच्छा वा, एषोऽनङ्गो नान्यः कश्चित्, तेन तस्मिन् वा क्रीडनं रमणमनङ्गक्रीडनम्, अथवा स्वलिङ्गेन कृतकृत्योऽपि काष्टपुस्तफलमृत्तिकाचर्मादिघटितैराहार्यै:प्रजननैर्योषितामवाच्यदेशं पुनः पुनः कुथ्नाति केशाकर्षणप्रहारदानदन्तनखकदर्थनादिप्रकारेण मोहनीयकर्मावेशात्तथा क्रीडति यथा बलवान् रागः प्रसूयते, यद्वा अङ्गं देहावयवो मैथुनापेक्षया योनिर्मेहनञ्च, तद्व्यतिरिक्तान्यनङ्गानि, कुचकक्षोरुवदनादीनि तेषु क्रीडनमनङ्गक्रीडनमिति । कामतीव्ररागः, कामे तीव्रो रागः, अतीवाऽऽग्रहः परित्यक्तान्यसकलव्यापारस्य मैथुनेऽध्यवसायता, योषामुखकक्षोपस्थान्तरेषु अवितृप्ततया प्रक्षिप्य लिङ्गं महती वेलां निश्चलो मृत इवास्ते चटक इव चटकां मुहुर्मुहुर्योषामारोहति, जातबलक्षयश्च वाजीकरणान्युपयुङ्क्ते इति । अत्र च श्रावकोऽत्यन्तपापभीरुतया ब्रह्मचर्य चिकीर्षुरपि यदा वेदोदयासहिष्णुतया तद्विधातुं न शक्नोति तदा यापनामात्रार्थं स्वदारसन्तोषादि प्रतिपद्यते, मैथुनमात्रेण च यापनायां सम्भवन्त्यामनङ्गक्रीडनकामतीव्ररागावर्थतः प्रतिषिद्धौ, तत्सेवने च न कश्चिद्गुणः प्रत्युत तात्कालिकी छिदा राजयक्ष्मादयश्च रोगा दोषा एव भवन्ति, एवं प्रतिषिद्धाचरणाद्भङ्गो नियमाबाधनाच्चाभङ्ग इत्यतिचारावेतौ ॥ धनधान्यसंख्यातिक्रमः, क्षेत्रवास्तुसंख्यातिक्रमः, रूप्यस्वर्णसंख्यातिक्रमः, गोमनुष्यादिसंख्यातिक्रमः, कुप्यसंख्यातिक्रमश्चेति पञ्च पञ्चमव्रतातिचाराः । धनधान्यादीनां यावज्जीवं चतुर्मासादिकालावधि वा यत्परिमाणं गृहीतं तस्योल्लंघनरूपा एते, अतिचारा एते न साक्षात् गृहीतसंख्यातिक्रमरूपाः किन्तु बन्धनयोजनदानगर्भभावैः पञ्चभिर्हेतुभिः स्वबुद्ध्या व्रतभङ्गमकुर्वत एव । तत्र धान्यस्य बन्धनात्संख्यातिक्रमो यथा-कृतधनधान्यपरिमाणस्य कोऽपि लभ्यमन्यद्वा धनं धान्यं च ददाति तच्च व्रतभङ्गभयाच्चतुर्मास्यादिपरतो गृह्णतो धनादिविक्रये वा कृते ग्रहीष्यामीति भावनया बन्धनान्नियंत्रणात् रज्ज्वादिसंयमनात् सत्यङ्कारदानादिरूपाद्वा स्वीकृत्य तद्नेह एव स्थापयतोऽतिचारः । क्षेत्रवास्तुनो योजनात् क्षेत्रवास्त्वन्तरमीलनाद्गृहीतसंख्यातिक्रमोऽतिचारो भवति, ___ १. धनं गरिमधरिममेयपारिच्छेद्यभेदाच्चतुर्धा, यदाह-'गणिमं जाइफलफोफलाईधरिमं तु कुंकुमगुडाई । मेज्जं चोपडलोणाइ रयणवत्थाइ परिच्छेज्जं' इति, धान्यं चतुर्विंशतिधा, सप्तदशधा वा । सस्योत्पत्तिभूमिः क्षेत्रं सेतुकेतूभयात्मकभेदात्रिधा, अरघट्टजलासेच्यं सेतुक्षेत्रं, वारिदजलनिष्पाद्यधान्यं केतुक्षेत्रं, अभयजलनिष्पाद्यसस्यमुभयात्मकं । वास्तु गृहादि ग्रामनगरादि च, गृहादि त्रेधा खातं भूगृहादि उच्छ्रितं प्रासादादि उभयविधमुभयं । रूप्यं रजतं स्वर्णं उभयमपि घटितमघटितञ्चानेकप्रकारम् । कुप्यं कांस्यलोहताम्रसीसकादिकम् ॥