________________
सूत्र - १७, सप्तमः किरणः
३६७ तथाहि एकमेव क्षेत्रं वास्तु चेत्यभिग्रहवतोऽधिकतरतदभिलाषे सति व्रतभङ्गभयात् प्राक्तनक्षेत्रादिप्रत्यासन्नं तद् गृहीत्वा पूर्वेण सह तस्यैकत्वकरणार्थं वृतिभित्त्याद्यपनयने च तत्तत्र योजयतो व्रतसापेक्षत्वात्कथञ्चिद्विरतिबाधनाच्चाऽतिचारः । रूप्यसुवर्णस्य दानात्-वितरणाद् गृहीतसंख्याया अतिक्रमो यथा केना पि चातुर्मासाद्यवधिना रूप्यादिसंख्या विहिता, तेन च तुष्टराजादेः सकाशात्तदधिकं तल्लब्धं, तच्चान्यस्मै व्रतभङ्गभयाद्ददाति, पूर्णेऽवधौ ग्रहीष्यामीति भावनयेति व्रतसापेक्षत्वात् कथञ्चिद्विरतिबाधनाच्चातिचार इति । गोमनुष्यादेर्गर्भतः संख्यातिक्रमो यथा केनाऽपि संवत्सराद्यवधिना द्विपदचतुष्पदानां परिमाणं कृतं, तेषां च संवत्सराद्यवधिमध्य एव प्रसवेऽधिद्विपदादिभावाव्रतभङ्गः स्यादिति तद्भयात्कियत्यपि काले गते गर्भग्रहणं कारयतो गर्भस्थद्विपदादिभावेन बहिर्गततदभावेन च कथञ्चिव्रतभङ्गादतिचारः । कुप्यस्य भावतस्संख्यातिक्रमो यथा कुप्यस्य या संख्या कृता तस्याः कथञ्चिद् द्विगुणत्वे भूते सति व्रतभङ्गभयात्तेषां द्वयेनैकैकं महत्तरं कारयतः पर्यायान्तरकरणेन संख्यापूरणात्स्वाभाविक संख्याबाधनाच्चातिचार इति उक्ता अणुव्रतानां पञ्च पञ्चातिचारास्संक्षेपेण ॥
ऊधिस्तिर्यक्ष निश्चितमानोल्लंघनरूपास्त्रयः क्षेत्रवृद्धिः स्मृतिभ्रंशश्चेति पञ्च प्रथमगुणव्रतस्यातिचाराः, दिग्व्रतविषयस्य पूर्वादिदेशस्य क्षेत्रस्य हूस्वस्य पश्चिमादिक्षेत्रान्तरपरिमाणप्रक्षेपेण दीर्धीकरणं क्षेत्रवृद्धिः, यथा केनाऽपि पूर्वापरदिशोः प्रत्येकं योजनशतं गमनपरिमाणं कृतं, स चोत्पन्नप्रयोजन एकस्यां दिशि नवति योजनानि व्यवस्थाप्यान्यस्यां तु दशोत्तरं योजनशतं करोति, उभाभ्यामपि प्रकाराभ्यां योजनशतद्वयरूपस्य परिमाणस्याव्याहतत्वादित्येवमेकत्र क्षेत्रं वर्धयतो व्रतसापेक्षत्वादतिचारश्चतुर्थः । स्मृतिभ्रंशो योजनशतादिरूपदिक्परिमाणविषयस्यातिव्याकुलत्वप्रमादित्वमत्यपाटवादिना ध्वंसः, तथाहि केनचित्पूर्वस्यां दिशि योजनशतरूपं परिमाणं कृतमासीत् गमनकाले च स्फुटतया न स्मरति शतं वा पंचाशद्वेति, यदि पञ्चाशतमतिक्रामति तदाऽतिचारः, शतमतिक्रामतस्तु भङ्गः, सापेक्षत्वानिरपेक्षत्वाच्च तस्मात्स्मर्तव्यमेव गृहीतव्रतं, स्मृतिमूलं हि सर्वमनुष्ठानमिति पञ्चमोऽतिचारः ॥ सचित्तः सचित्तप्रतिबद्धः, संमिश्रः, अभिषवः, दुष्पक्वाहार इति द्वितीयगुणव्रतस्य पञ्चाऽतिचाराः,
.१. स्मृतिभ्रंशादनाभोगाद्वा यदि परिमाणमतिक्रान्तो भवेत्तदा ज्ञाते तेन निर्वर्तितव्यं परतश्च न गन्तव्यम्, अन्योऽपि न विसर्जनीयः । अथ नाज्ञया कोऽपि व्रजेत्तदा यत्तेन लब्धं स्वयं विस्मृत्य गतेन वा तन्न गृह्यते, तीर्थयात्रादिधर्मनिमित्तं तु नियमितक्षेत्रात्परतोऽपि साधोरिवेर्यासमित्युपयोगेन गच्छतो न दोषः, धनार्जनाद्यैहिकफलार्थमेवाधिकगमनस्य नियमनादिति सम्प्रदायः॥