________________
सूत्र - १७, सप्तमः किरणः
३६५
दानरूपत्वेन तदनुष्ठातृणाञ्च चौर्यदण्डयोगेनादत्तादानरूपत्वाव्रतभङ्ग एव तथापि शत्रुराज्यगति कुर्वता मया वाणिज्यमेव कृतं न चौर्यमिति भावनया व्रतसापेक्षत्वाल्लोके च चोरोऽयमिति व्यपदेशाभावादतिचारता, उपलक्षणत्वाद्राजनिषिद्धवस्तुग्रहणमपि तथेति चतुर्थोऽतिचारः । सदृशवस्तुना व्यवहरणं प्रतिरूपव्यवहारः, यथा व्रीहीणां पलञ्जि, घृतस्य वसा, तैलस्य मूत्रं, हिङ्गोः खदिरादिवेष्टः चणकादिवेष्टं गुन्दादि वा, कुङ्कमस्य कृत्रिमं तत् कुसुम्भादि वा, मञ्जिष्ठादेश्चित्रकादि, तथा विधाय विक्रयणं, यद्वाऽपहृतानां गवादीनां सशृङ्गाणां अग्निपक्वकालिङ्गीफलस्वेदादिना श्रृङ्गाण्यधो मुखानि प्रगुणानि तिर्यग्वलितानि वा विधायान्यत्वमिव तेषामापाद्य सुखेन धारणविक्रयादि करोतीति पञ्चमः । मानविप्लवः प्रतिरूपक्रिया च परव्यंसनेन परधनग्रहणरूपत्वाद्भङ्ग एव, केवलं खात्रखननादिकमेव चौर्यं प्रसिद्ध मया तु वणिक्कलैव कृतेति भावनया व्रतरक्षमोद्यतत्वादतिचार इति ॥ परविवाहकरणं, अनात्तागमः, इत्वरात्तागमः, अनङ्गक्रीडनं, कामतीव्ररागश्चेति पञ्चातिचाराश्चतुर्थव्रते । स्वस्वापत्यव्यतिरिक्तानां कन्याफललिप्सया स्नेहसम्बन्धादिना वा परिणयनविधानं परविवाहकरणम् । इदञ्च स्वदारसन्तोषवता स्वकलत्रात्परदारवर्जकेन च स्वकलत्रवेश्याभ्यामन्यत्र मनोवाक्कायैमैथुनं न कार्यं न च कारणीयमिति यदा प्रतिपन्नं तदा परविवाहकरणं मैथुनकारणमर्थतः प्रतिषिद्धमेव भवति तद्बती तु मन्यते, विवाह एवायं मया विधीयते न मैथुनं कार्यते इति व्रतसापेक्षत्वादतिर्चारः । कन्याफललिप्सा च सम्यग्दृष्टेरव्युत्पन्नावस्थायां मिथ्यादृष्टेस्तु भद्रकावस्थायामनुग्रहार्थं व्रतदाने सा संभवतीति । अनात्तागमः, अनात्ता-अपरिगृहीता वेश्या स्वैरिणी प्रोषितभर्तृका कुलाङ्गना वाऽनाथा, तस्या गम आसेवनम्, अनाभोगादिनाऽतिचारोऽयं स्वदारसन्तोषिणः । इत्वरात्तागमः, इत्वरी प्रतिपुरुषमयनशीला वेश्येत्यर्थः, सा चासावात्ता च कञ्चित्कालं भाटीप्रदानादिना सङ्ग्रहीता, इत्वरात्ता, इत्वरकालं वाऽऽत्ता इत्वरात्ता तस्या गम आसेवनमित्वरात्तागमः, अयञ्च भाटीप्रदानत्वादित्वरकालस्वीकारेण स्वकलत्रीकृत्ये वेश्यां सेवमानस्य स्वबुद्धिकल्पनया स्वदारत्वेन व्रतसापेक्षत्वान्न भङ्गः, अल्पकालपरिग्रहाच्च वस्तुतोऽन्यकलत्रत्वाद्भङ्ग इति भङ्गाभङ्गरूपत्वादतिचारः, अयमपि स्वदारसन्तोषिण एव, न तु परदारवर्जकस्य, इत्वरात्ताया वेश्यात्वेनात्तायास्त्वनाथतयैवपरदारत्वात् शेषास्त्वतिचारा
१. ननु स्वापत्यविवाहने कथं न दोषः ? परविवाहनवदिति चेत्सत्यम्, निजकन्यायाः परिणयनाभावे स्वच्छन्दचारिणीत्वप्रसङ्गेन शासनोपधातसम्भवात्, कृते तु विवाहे पतिनियंत्रितत्वेन तदसम्भवादिति । सत्यपि कलत्रे तत्र विशिष्टसन्तोषाभावात्स्वयं पुनः कलत्रान्तरस्य विवाहनं परकलविवाहनं स्वदारसन्तोषवतोऽतिचार इति केचित् ॥