________________
३६४
तत्त्वन्यायविभाकरे तथोपदेशः, यद्वा विवाहे स्वयं परेण वाऽन्यतराभिसन्धानोपायोपदेश इति । यन्न सर्वस्मै कथनीयं तस्यानधिकृतेनैवकारेङ्गितादिभित्विाऽन्यस्मै प्रकाशनं गुह्यभाषणं, यथा-एते हीदमिदं च राजविरुद्धादिकं मंत्रयन्ते अथवा गुह्यभाषणं पैशुन्यं, यथा द्वयोः प्रीतौ सत्यामेकस्याकारादिनोपलभ्याभिप्रायमितरस्य तथा कथयति यथा प्रीतिः प्रणश्यति, अस्याप्यतिचारत्वं रहस्याभ्याख्यानवत् हास्यादिनैवेति । अन्यसदृक्षाक्षरमुद्राकरणं कूटलेखः, एतच्च यद्यपि कायेनासत्यां वाचं न वदामि नवा वादयामीत्यस्य वा व्रतस्य भङ्ग एव तथापि सहसाकारानाभोगादिनाऽतिक्रमादिना वाऽतिचारः, अथवाऽसत्यमित्यसत्यभणनं मया प्रत्याख्यातं, इदं पुनर्लेखनमिति भावनया व्रतसापेक्षस्यातिचार एव । विश्वासमुपगतानां मंत्रणस्य प्रकाशकरणं विश्वस्तमंत्रकरणम्, अस्यानुवादरूपत्वेन सत्यत्वाद्यद्यपि नातिचारता घटते तथापि मंत्रितार्थप्रकाशनजनितलज्जादितो मित्रकलत्रादेर्मरणादिसम्भवेन परमार्थतोऽस्यासत्यत्वात् कथञ्चिद्भङ्गरूपत्वेनातिचारतैव । गुह्यभाषणे गुह्यमाकारादिना विज्ञायानाधिकृत एव गुह्यं प्रकाशयति, इह तु स्वयं मंत्रयित्वा मन्त्रं भिनत्तीत्यनयोर्भेद इति ॥ स्तेनाहतग्रहः स्तेनप्रयोगः मानविप्लवः, शत्रुराज्यगमनं, प्रतिरूपव्यवहार इति तृतीयव्रतस्यातिचाराः । चोरानीतपदार्थानां मूल्यादिना ग्रहणं स्तेनाहतग्रहः,स्तनाहृतं हि काणक्रयेण मुधिकया वा प्रच्छन्नं ग्रहणं चौरो भवति, यतो नीति: 'चौरश्चौरापको मन्त्री भेदज्ञः काणकक्रयी । अन्नदः स्थानदश्चेति चौरस्सप्तविधः स्मृतः' इति ततश्चौर्यकरणाव्रतभङ्गः, वाणिज्यमेव क्रियते मया न चौरिकेत्यध्यवसायेन व्रतसापेक्षत्वाच्चाभङ्ग इति भङ्गाभंगरूपः प्रथमोऽतिचारः । स्तेनानामभ्यनुज्ञानं हरत यूयमित्यादिरूपेण, स्तेनोपकरणानां वा कुशिकाकर्त्तरिकाघर्घरिकादीनामर्पणं विक्रयणं वा स्तेनप्रयोगः । अत्र च यद्यपि चौर्यं न करोमि न कारयामीत्येवं प्रतिपन्नव्रतस्यस्तेनप्रयोगो व्रतभङ्ग एव, तथापि 'किमधुना यूयं निर्व्यापारस्तिष्ठत, यदि वो भक्तादि नास्ति तदाऽहं तद्ददामि, भवदानीतमोषस्य वा यदि विक्रायको न विद्यते तदाऽऽहं विक्रेष्ये' इत्येवंविधवचनैश्चोरान् व्यापारयतः स्वकल्पनया तद्व्यापारणं परिहरतो व्रतसापेक्षस्यासावतिचार इति द्वितीयोऽतिचारः । मानस्य कुडवादिपलादिहस्तादेः हीनाधिकत्वकरणं मानविप्लवः, हीनमानेन दानमधिकमानेन च ग्रहणं तत्त्वतश्चौर्यमेव, न चैवं श्रावकस्य युज्यत इति तृतीयोऽतिचारः । विरुद्धयो राज्ञोर्यद्राज्यं तत्र राज्ञाऽननुज्ञाते गमनं शत्रुराज्यगमनम् । शत्रुराज्यगमनस्य यद्यपि स्वस्वामिनाऽननुज्ञातस्यादत्ता
१. अविमृश्यकारित्वं सहसाकारः, असावधानताऽनाभोगः, व्रतभङ्गाय केनचिनिमंत्रणे कृतेऽप्रतिषेधादतिक्रमः, गमनादिव्यापारे व्यतिक्रमः, क्रोधाद्वधबन्धादावतिचारः, जीवहिंसादौ त्वनाचार इति ॥