________________
सूत्र - १७, सप्तमः किरणः
३६३ मूलछिज्जं पुण होइ बारसण्हं कसायाणं' इति । सर्वविरतेस्तृतीयानामुदये मूलच्छेदो देशविरतेद्वितीयानां सम्यक्त्वस्य प्रथमानामिति गाथापश्चार्धस्याभिप्रायवर्णनेऽपि यथा संज्वलनोदये सर्वविरतिवाप्यते तत्रातिचाराश्च भवन्ति तथा प्रत्याख्यानावरणोदये देशविरतिस्तदतिचाराश्च, अप्रत्याख्यानोदयेसम्यक्त्वं तदतिचाराश्च भवन्तु न्यायस्य समानत्वात्, विचित्रो ह्युदयः कषायाणां, ततोऽसौ गुणलाभस्याप्रतिबन्धकस्तदतिचाराणाञ्च निमित्तं भवति संज्वलनोदयवदिति । तत्र प्रथमव्रतस्य प्रकृष्टक्रोधोदयात् वधः, बन्धः, छविच्छेदः, अतिभारारोपणं, भक्त पानव्यवच्छेदश्चेति पञ्चातिचारा भवन्ति, क्रोधाच्चतुष्पदादीनां लगुडादिना ताडनं वधः, प्रबलकषायोदयादेव विज्ञेयस्तेन विनयग्रहणार्थं स्वपुत्रादीनां ताडनेऽपि न क्षतिः । तेषामेव रज्ज्वादिना नियंत्रणं बन्धः, सोऽपि पुत्रादीनां क्रियत इति प्रबलक्रोधादेवेति भाव्यम् । छविश्शरीरं त्वग्वा, तस्याश्छेदः, छविच्छेदः, कर्णनासिकागलकम्बलपुच्छादिकर्त्तनम्, अयमपि क्रुध इत्येव तेन पादवल्मीकोपहतपादस्य पुत्रादेस्तत्करणेऽपि नातिप्रसङ्गः । अतिशयितो भारोऽतिभारः, वोढुमशक्य इत्यर्थः, तस्यारोपणं गोकरभरासभमनुष्यादेः स्कन्धे पृष्ठे शिरसि वा स्थापनं, इहापि क्रोधाल्लोभावति विज्ञेयम् । अशनपानादीनां निषेधः क्रोधाद्भक्तपानव्यवच्छेदः, एते पञ्चाऽतिचारा नाममात्रेणोक्ता विस्तरस्तु तत्तद्ग्रन्थेभ्योऽवसेयः, एवमग्रेऽपि, सहसाभ्याख्यानं मिथ्योपदेशो गुह्यभाषणं कूटलेखो विश्वस्तमंत्रभेदश्चेति द्वितीये व्रते पञ्चातिचाराः, अविमृश्यासदोषाध्यारोपणं सहसाभ्याख्यानं यथा चौरस्त्वं पारदारिको वेत्यादि । अन्ये त्वस्य स्थाने रहस्याभ्याख्यानं पठन्ति, तदा रह एकान्तस्तत्र भवं रहस्यं, रहस्येनाभ्याख्यानमसदध्यारोपणं यथा वृद्धायै वक्ति-अयं ते भर्ता तरुण्यामतिप्रसक्तः, तरुण्यै वक्ति-अयं ते भर्ता प्रौढचेष्टितायां मध्यमवयसि प्रसक्त इत्यादि रहस्याभ्याख्यानमिति । असदुपदेशो मिथ्योपदेशः, प्रतिपन्नसत्यव्रतस्य हि परपीडाकरं वचनमसत्यमेव, ततः प्रमादात् परपीडाकरणे उपदेशोऽतिचारः, यथा वाह्यन्तां खरोष्ट्रादयो हन्यन्तां दस्यव इत्यादि, यद्वा यथास्थितोऽर्थस्तथोपदेशः साधीयान्, विपरीतस्त्वयथार्थोपदेशो यथा परेण सन्देहापन्नेन पृष्टे न
१. ननु बन्धादयो नातिचाराः, श्रावकेण हिंसाया एव प्रत्याख्यातत्वात् हिंसाविरतेरखण्डितत्वाच्च तेषामपि प्रत्याख्यातत्वे च तत्करणे विरतिखण्डनाद् व्रतभङ्ग एव स्यात् तथा व्रतेयत्ताभङ्गोऽपि स्यात्प्रतिव्रतमतिचाराणामाधिक्यादिति चेन्मैवम्, हिंसामात्रस्य प्रत्याख्यातत्वेऽपि तेषामप्यर्थतः प्रत्याख्यातत्वात् हिंसोपायत्वात्तेषाम् । न च तत्करणे व्रतभङ्ग एव नातिचार इति वाच्यम्, देशस्यैव भञ्जनादेशस्यैव पालनादतिचारव्यपदेशात् । द्विविधं हि व्रतमन्तवृत्त्या बहिर्वृत्त्या च, यदा मारयामीति विकल्पविरहकालीनक्रोधादिप्रत्युक्तनिरपेक्षवधादिप्रवृत्तिः हिंसाभावश्च तदा निर्दयतया विरत्यनपेक्षप्रवृत्तितयाऽन्तर्वृत्त्या तस्य भंगो हिंसाया अभावाच्च बहिर्वृत्त्या पालनमिति ॥