________________
३६२
तत्त्वन्यायविभाकरे
उपस्थितेभ्यः साधुभ्यो न्यायागतानां कल्पनीयानामन्नपानादीनां देशकाल श्रद्धासत्कारक्रमयुक्तेन परया भक्त्याऽऽत्मानुग्रहबुद्ध्या यद्दीयते सोऽतिथिसंविभागस्तद्रूपं व्रतमिति । आदिनात्र वस्त्रपात्रादीनां ग्रहणम्, न च शास्त्रे वस्त्रादिदातार आहारदातृश्रवणमिव न श्रूयन्ते न वा वस्त्रदानस्य फलमिति वाच्यम्, भगवत्यादौ वस्त्रादिदानस्य साक्षादुक्तत्वात्, संयमोपकारित्वाच्च तेषाम् । अत्र वृद्धोक्ता सामाचारी - पोषधं पारयता श्रावकेण नियमात्साधुभ्यो दत्त्वा पारयितव्यमन्यदा पुनरनियमो दत्त्वा वा पारयति पारयित्वा वा ददाति, तस्मात् पूर्वं साधुभ्यो दत्त्वा पश्चात्पारयितव्यम् । कथम् ? यदा भोजनकालो भवति तदाऽऽत्मनो विभूषां कृत्वा प्रतिश्रयं च गत्वा साधून्निमंत्रयते ‘भिक्षां गृह्णीते 'ति । साधूनाञ्च तं प्रति का प्रतिपत्तिः ?, उच्यते, तदैक: पटलमन्यो मुखान्तकमपरो भाजनं प्रत्युपेक्षते, मा अन्तरायदोषाः स्थापनादोषा वा भवन्तु इति । यदि स च प्रथमायां पौरुष्यां निमंत्रयते, अस्ति च नमस्कारसहितप्रत्याख्यानीयस्ततस्तद्गृह्यते, अथ नास्त्यसौ तदा न गृह्यते यतस्तद्वोढव्यं भवति, यदि पुनर्बाढं लगेत् तदा गृह्यते संस्थाप्यते च, यो वोद्घाटपौरुष्यां पारयति पारणकवानन्यो वा तस्मै तद्दीयते, पश्चात्तेन श्रावकेण सह संघाटको व्रजति, एको न वर्त्तते प्रेषयितुम्, साधू पुरतः श्रावकस्तु मार्गे गच्छति, ततोऽसौ गृहं नीत्वा तावासनेनोपनिमंत्रयते, यदि निविशते, तदा भव्यं, अथ न निविशते तथापि विनयः प्रयुक्तो भवति, ततोऽसौ भक्तं पानञ्च स्वयमेव ददाति, भाजनं वा धारयति, स्थित एवाऽऽस् यावद्दीयते, साधू अपि पश्चात्कर्मपरिहारार्थं सावशेषं गृह्णीतः, ततो वन्दित्वा विसर्जयति, अनुगच्छति च कतिचित्पदानि ततः स्वयं भुङ्क्ते । यदि पुनस्तत्र ग्रामादौ साधवो न भवन्ति तदा भोजनवेलायां द्वारावलोकनं करोति, विशुद्धभावेन च चिन्तयति । यदि साधवोऽभविष्यन् तदा निस्तारितोऽभविष्यमिति, एष पोषधपारणके विधिः, अन्यदा तु दत्त्वा भुङ्क्ते भुक्त्वा वा ददातीति द्वादशव्रतानि श्रावकाणाम् । एतानि च निरतिचारतया परिपालितानि विशेषतो गृहिधर्मो भवतीत्यतिचारा विज्ञेयाः, तत्र पञ्च पञ्चातिचाराः प्रतिव्रतं भवन्ति । ननु संज्वलनकषायोदयप्रभवत्वादतिचाराणामप्रत्याख्यानप्रत्याख्यानोदयवतां सम्यग्दृष्टिदेशविरतानां ते कथं सम्भवन्ति, संज्वलनकषायोदयवतस्सर्वविरतस्यैव तेषां संभवात्, देशविरतेरल्पीयस्त्वात् कुन्थुशरीरे व्रणाद्यसम्भववत् इति चेन्मैवम्, उपासकदशादिषु प्रतिव्रतमति - चारपञ्चकाभिधानात् सर्वविरतौ संज्वलनोदयेऽतिचारा भवन्ति शेषाणामुदये मूलच्छेद्यमेव स्यादित्यभिप्रायेण सर्वविरतावतिचारहेतुत्वेन संज्वलनोदयस्य शास्त्रे प्रोक्तत्वात्, न तु संज्वलनोदयमात्रजन्यत्वमतिचाराणाम्, 'सव्वेवि अ अइआरा संजलणाणं तु उदयओ हुंति ।