________________
सूत्र - १७, सप्तमः किरणः
३६१ पोषधोपवासस्य चतुर्विधत्वात्, तत्र धर्मस्य पोषं पुष्टिं धत्त इति पोषधः, स एव व्रतं पोषधव्रतं पोषधोपवास इत्युच्यते, प्रोक्तपर्वदिवसानुष्ठेयो व्रतविशेषः पोषधस्तेनोपवसनमवस्थानं पोषधोपवासः, अथवा पोषधोऽष्टम्यादिपर्वदिवसः, उपावृत्तदोषस्य सतो गुणैराहारपरिहारादिरूपैः उप-सह वास उपवास: पोषधेषूपवासः पोषधोपवासः । व्युत्पत्तिमात्रमिदम्, प्रवृत्तिस्तु पोषधोपवासशब्दस्योपर्युक्ताहारादिचतुष्कवर्जनेषु । तथा च पोषधोपवास आहारशरीरसत्काराब्रह्माव्यापाररूपविषयभेदाच्चतुर्धा, पोषधशब्दोऽपि तत्र प्रयुज्यते, तत्रापि प्रत्येक देशसर्वभेदादष्टधा भवति, तत्राऽऽहारपोषधो देशतो विवक्षितविकृतेरविकृतेराचाम्लस्य वा सकृदेव द्विरेव वा भोजनमिति, सर्वतस्तु चतुर्विधस्याप्याहारस्याऽहोरात्रं यावत्प्रत्याख्यानम्, शरीरसत्कारपोषधो देशतश्शरीरसत्कारस्यैकतरस्याऽकरणम्, सर्वतस्तु सर्वस्यापि तस्याऽकरणम्, अब्रह्मत्यागरूपब्रह्मचर्यपोषधोऽपि देशतो दिवैव रात्रावेव सकृदेव द्विरेव वा स्त्रीसेवां मुक्त्वा ब्रह्मचर्यकरणम्, सर्वतस्त्वहोरात्रं यावद् ब्रह्मचर्यपालनम् । अव्यापारपोषधस्तु देशतो एकतरस्य कस्यापि कुव्यापारस्याऽकरणम्, सर्वतस्तु सर्वेषां कृषिसेवावाणिज्यपाशुपाल्यगृहकर्मादीनामकरणम् । तत्र देशतः कुव्यापारनिषेधे सामायिकं तु करोति न वा, सर्वतः कुव्यापारनिषेधे तु नियमात्तत्करोति । अकरणे तु तत्फलेन वंच्यते । सर्वतः पोषधव्रतञ्च चैत्यगृहे वा साधुमूले वा गृहे वा पोषधशालायां वा त्यक्तमणिसुवर्णाद्यलंकारो व्यपगतमालाविलेपनवर्णकः परिहृतप्रहरणः प्रतिपद्यते, तत्र च कृते पठतिपुस्तकं वाचयति, धर्मध्यानं ध्यायति यथैतान् साधुगुणानहं मन्दभाग्यो न समर्थो धारयितुमिति । एतेषां चाहारादिपदानां चतुर्णा देशसर्वभेदानामेकद्वयादिसंयोगजा अशीतिर्भङ्गा भवन्ति, तदेतत्सर्वमन्यग्रन्थेभ्योऽवसेयमिति तृतीयं शिक्षापदव्रतम् ॥ अथाऽतिथिसंविभागवतं, न विद्यन्ते सततप्रवृत्त्या विशदैकाकारानुष्ठानतया तिथयो दिनविभागा यस्य सोऽतिथिः, उक्तञ्च 'तिथिपर्वोत्सवास्सर्वे त्यक्ता येन महात्मना । अतिथिं तं विजानीयाच्छेषमभ्यागतं विदु' रिति । तस्य सङ्गतो विभागोऽतिथिसंविभागः, तथा च तिथिपर्वादिलौकिकपर्वपरित्यागादोजनकाल
१. अभ्यागतव्यावृत्तये साधुभ्य इत्यन्तं पदम् । अन्यायेनाऽऽगतानामन्नादीनां व्यावर्त्तनाय न्यायागतानामिति, द्विजक्षत्रियविद्शूद्राणां स्ववृत्त्यनुष्ठानं न्यायं, स्क्वृत्तिश्च प्रायो लोकव्यवहार्या प्रसिद्धेव, अकल्पनीयव्यवच्छेदाय कल्पनीयानामिति, उद्गमादिदोषवर्जितानामिति तदर्थः । अन्नपानादीनामित्यत्रादिना वस्त्रपात्रौषधादिपरिग्रहः, इदञ्च विशेषणं हिरण्यादिव्यवच्छेदाय । अदेशाकालासत्काराक्रमव्यवच्छेदाय देशकालसत्कारक्रमयुक्तेनेति, तत्र नानाव्रीहिकोद्रवकॉगोधूमादिनिष्पत्तिभाक् देशः, सुभिक्षदुर्भिक्षादिः कालः, विशुद्धचित्तपरिणामः श्रद्धा, अभ्युत्थानासनदानवन्दनानुव्रजनादिः सत्कारः, पाकस्य पेयादिपरिपाट्य प्रदाने क्रमः, तैर्युक्तेनेत्यर्थः । फलप्राप्तौ भक्तिकृतमतिशयमाह परया भक्त्येति, यत्यनुग्रहबुद्धया प्रदानवारणायाऽऽत्मानुग्रहबुद्धयेति ॥