________________
३५८
तत्त्वन्यायविभाकरे सामर्थ्याभावे देशत इच्छाप्रसरनिरोधः कार्यः । इच्छाप्रसरो हि संसारिणां स्वाभाविकोऽतस्तदियत्ताकरणं महते गुणाय भवति, यथा यथा ह्यल्पो लोभः परिग्रहारम्भश्च तथा तथा सुखं प्रवर्धते धर्मस्य च संसिद्धिर्भवति । एतव्रतस्य सन्तोषसौख्यलक्ष्मीस्थैर्यजनप्रशंसादिफलमिह परत्र च नरामरसमृद्धिसिद्ध्यादीति पञ्चममणुव्रतम् । एतेषामणुव्रतानां परिपालनाय भावनाभूतानि गुणव्रतानि त्रीणि भवन्ति । दिग्व्रतं भोगोपभोगव्रतमनर्थदण्डविरमणञ्चेति । नानाविधा दिशश्शास्त्रेऽभिहिताः, तत्र सूर्योपलक्षिता या सा पूर्वा तदनुक्रमेण दक्षिणादिका भाव्याः, तत्र दिक्सम्बन्धिव्रतं दिग्व्रतं, एतावत्सु पूर्वादिदिग्विदिग्भागेषु गमनादि मयाऽनुष्ठेयं न परत इत्येवम्भूतं दिग्व्रतम् । गुणव्रतप्रतिपत्तिमन्तरेणाणुव्रतानां तथाविधविशुद्धिविरहेणेदं गुणव्रतमुच्यते, अनेन चावगृहीतक्षेत्राद्बहिः स्थावरजङ्गमाभयदानलोभाम्भोधिनियंत्रणादिर्महालाभो भवति । गृहस्थो ह्यारम्भपरिग्रहपरत्वाद्यत्र यत्र याति भुङ्क्ते शेते व्यापारं वा कुरुते तत्र तत्र तप्तायोगोलकवज्जीवोपम करोतीति तस्यैव हिंसादिपापस्थाननिवर्त्तकमेतत्, न साधूनाम्, समितिगुप्त्यादिप्रधानव्रतशालित्वात्तेषामिति प्रथमं गुणव्रतम् । भोगोपभोगमानव्रतं द्वितीय, तत्र भोगस्सकृदेव भोगयोग्यो यथाऽन्नमाल्यताम्बूलादि, पुनः पुनर्भोगयोग्य उपभोगो यथा वनितावस्त्रालङ्कारगृहशयनादि, तत्र यथाशक्ति परिमाणकरणं भोगोपभोगमानव्रतम्, तत्र श्रावकेण निसर्गतो निरवद्याहारभोजिना भवितव्यम्, तस्मिन्नसति सचित्तपरिहारः कर्त्तव्यः, तत्राप्यसामर्थ्यऽतीव सावद्यान्मद्यामिषानन्तकायादीन् विहाय प्रत्येकमिश्रसचित्तादीनां परिमाणन्तु कर्त्तव्यमेव, तथा विना महोत्सवादिकारणविशेषेणातीव चेतोविकारासक्तिजनापवादादिनिमित्तात्युद्भटवेषवाहनालङ्कारादिकमपि श्रावको वर्जयेत्, एवमतिमालिन्यातिस्थूलहूस्वसच्छिद्रवस्त्रादिपरिधानेऽपि कुचेलत्वकार्पण्यादिलोकापवादहास्यप्रसङ्गेन निजसम्पत्तिवयोवासस्थानकुलादियोग्यं वेषमारचयेत् । उचितवेषादौ च प्रमाणनियमनमनुष्ठेयम् । एवं दन्तकाष्ठाभ्यङ्गतैलोद्वर्त्तनमज्जनवस्त्रविलेपनाभरणपुष्पफलधूपासनशयनभवनादेस्तथौदनसूपस्नेहशाकपेयाखण्डखाद्याद्यशनपानखादिमस्वादिमादेस्त्यक्तुमशक्यस्य व्यक्त्या प्रमाणं कार्यं शेषञ्च त्याज्यम्, इत्येवं भोजनमाश्रित्योक्तम् । कर्मतोऽपि श्रावकेण मुख्यतो निरवद्यकर्मप्रवृत्तिमता भवितव्यम् । तदशक्तावप्यत्यन्तसावधविवेकिजननिन्धक्रयविक्रयादिकर्म वर्जनीयं, शेषकर्मणामपि प्रमाणं करणीयम् । इत्थञ्चेदं व्रतं भोक्तुं योग्येषु परिमाणकरणेन इतरेषु तु वर्जनेन भवतीति द्वितीयं गुणव्रतम् । अनर्थदण्डविरमणं तृतीयं, अर्थः प्रयोजनं गृहस्थस्य क्षेत्रवास्तुधनधान्यं शरीरपालनादिविषयं तदर्थमारंभो भूतोपमर्दोऽर्थदण्डः, दण्डो निग्रहो यातना विनाश इति