________________
३५९
सूत्र - १७, सप्तमः किरणः पर्यायाः । अर्थेन प्रयोजनेन दण्डोऽर्थदण्डः, स चैवम्भूत उपमर्दनलक्षणो दण्डः क्षेत्रादि प्रयोजनमपेक्षमाणोऽर्थदण्ड उच्यते, स्वस्वीयस्वजनादिनिमित्तं हि विधीयमानो भूतोपमर्दस्सप्रयोजनत्वादर्थदण्डो भवति, तद्विपरीतोऽनर्थदण्डः, तद्भेदास्तु चत्वारोऽपध्यानपापकर्मोपदेशहिंसकार्पणप्रमादाचरणभेदात् । तत्राप्रशस्तं यदातरौद्रभेदभिन्नं स्थिराध्यवसानरूपं ध्यानं तदपध्यानं, एतत्परिमाणञ्चान्तर्मुहूर्तम् । पापप्रधानं तद्धेतुभूतं वा कर्म पापकर्म, यथा कृष्यादिकम्, तस्योपदेशस्तत्प्रवर्तनवाक्यं पापकर्मोपदेशः, यथा क्षेत्रं कृष, वृषवृन्दं षण्डय, हयान् दमय, क्रथन शत्रून्, यंत्रं वाहय, शस्त्रं सज्जय, इत्यादिरूपा उपदेशाः । तथा समापतितो वर्षाकालो दीयतां वल्लरेष्वग्निः, सज्जीक्रियतां हलफलकादि, अतिक्रामति वापकालो भृताः केदारा गाह्यन्तां सार्धदिनत्रयमध्ये, उप्यन्ताञ्च व्रीहयः, जातावस्था कन्यका विवाह्यतां शीघ्रं, प्रत्यासीदन्ति प्रवहणपूरणदिवसाः प्रगुणीक्रियन्तां प्रवहणानीत्यादि सर्वोऽपि पापोपदेश उत्सर्गतश्श्रावकेण त्याज्यः, अपवादतस्तु दाक्षिण्यादिविषये यतना कार्या । तथा हिं सकानामायुधानलविषादीनामर्पणं दानं हिंसकार्पणं, एवम्भूताः पदार्था उत्सर्गतो न देया अपवादतस्तु यतना विधेया । तथा प्रमादेन प्रमादस्य वाऽऽचरणं प्रमादाचरणम्, प्रमादाश्च मद्यविषयकषायनिद्राविकथारूपाः पञ्चविधास्तदाचरणमपि वर्ण्यमेव । एवमेव घृतादिपात्राणामनाच्छादनं सत्यपि जन्तुरहिते स्थाने सचित्तस्योपरि स्थितिकरणं गमनं वस्त्रादिनिक्षेपणं वा, पनककुन्थ्वाद्याक्रान्तभुव्यश्रवणादेः परित्यजनं, अयतनया कपाटार्गलादानादि, वृथा पत्रपुष्पादित्रोटनमृत्खटीवणिकादिमर्दनवयुद्दीपनगवादिघातदानशस्त्रव्यापारणनिष्ठुरमर्मभाषणहास्यनिन्दाकरणादि, रात्रौ दिवाप्ययतनया वा स्नानकेशग्रथनरन्धनखण्डनदलनभूखननमृदादिमर्दनलेपनवस्त्रधापनजलगालनादि च प्रमादाचरणम्, श्लेष्मादीनां व्युत्सर्गे स्थगनाद्ययतनापि प्रमादाचरणम्, मुहूर्तानन्तरं तत्र संमूच्छिममनुष्यसंमूर्च्छनतद्विराधनादिमहादोषसम्भवात्, एवमधिकरणभूतस्य शस्त्रादेः मलमूत्रादेश्चाऽव्युत्सर्जनमपि । स्वकार्ये कृतेऽपि ज्वलदिन्धनप्रदीपादेरविध्यापनमपि तथा, अग्निविध्यापनापेक्षया तदुद्दीपने बहुजीवविराधनायाः प्रतिपादनात् । अपिहितप्रदीपचुल्हकादिधारणचुल्लकोपरि चन्द्रोदयाप्रदानाद्यपि तथा, अशोधितेन्धनधान्यजलादिव्यापारणमपि तथा । एवमेष चतुर्विधोऽप्यनर्थदण्डोऽनर्थहेतुर्निरर्थकश्च, तथा ह्यपध्यानेन नास्ति काचिदिष्टसिद्धिः प्रत्युत चित्तोद्वेगवपुःक्षीणता शून्यताघोरदुष्कर्मबन्धदुर्गत्याद्यनर्थ एव, अतोऽशक्यपरिहारं जात्वपध्यानं क्षणमात्रं स्यात्तदाऽपि सद्य एव परिहार्य मनोनिग्रह यतनया, पापोपदेशहिंस्रप्रदाने च स्वजनादावन्यथा निर्वाहादर्शनाद्दुःशक्यपरिहारे,