________________
३४२
तत्त्वन्यायविभाकरे सायविशेषेण भिन्दन्ति सोऽध्यवसायो जीवस्यापूर्वकरणमुच्यते । अस्य प्रथम समये विशुद्धिर्जघन्याऽल्पा च, तस्यैवोत्कृष्टानन्तगुणा, द्वितीयसमये जघन्याऽनन्तगुणा इत्येवं क्रमेण यावदन्तर्मुहूर्तपरिसमाप्ति भाव्यम् । अथ तृतीयमनिवृत्तिकरणमभिधत्ते-मिथ्यात्वेति । यादृशविशिष्टतरविशुद्धाध्यवसायमारूढो जीवः स्वाद्धायास्संख्येयेषु भागेषु गतेषु एकस्मिश्च संख्येयतमे भागेऽवशिष्टे उदयक्षणादुपरि मिथ्यात्वस्थितेरन्तर्मुहूर्तमतिक्रम्योपरितनीञ्च विष्कम्भयित्वाऽन्तर्मुहूर्त्तकालपरिमाणं तत्प्रदेशवेद्यदलिकाभावं करोति सोऽध्यवसायविशेषोऽनिवृत्तिकरणमित्यर्थः । आसन्नसम्यक्त्वे जीवेऽनिवृत्तिकरणं भवति । अनेन च मिथ्यात्वकर्मणः स्थितिद्वयं जायत इति विज्ञेयम् । यत्र प्रविष्टानामखिलानां जीवानां समानकालीनानामेकाध्यवसायस्थानान्निवृत्तिावृत्तिर्न भवति तदनिवृत्तिकरणं, अत्र हि प्रथमे समये ये वर्तन्ते वृत्ता वतिष्यन्ते च सर्वेषां तेषामेकमेवाध्यवसायस्थानम्, द्वितीये समयेऽपि तथैव, किन्तु प्रथमसमयभाविविशोधिस्थानापेक्षयाऽनन्तगुणमध्यवसायस्थानमेवमेव यावदनिवृत्तिकरणचरमसमयं विभाव्यम् । अनिवृत्तिकरणाद्धायास्संख्येयेषु भागेषु गतेषु एकस्मिंश्च संख्येयतमे भागेऽवशेषेमिथ्यात्वस्यान्तरकरणं करोति, अपूर्वकरणेऽनिवृत्तिकरणे च स्थितिघातरसघातगुणश्रेणिगुणसंक्रमा भवन्ति । करणत्रयञ्च प्रत्येकमन्तर्मुहूर्त्तकालमानम्, करणत्रयकालोऽप्यन्तर्मुहूर्तप्रमाण एव, अन्तर्मुहूर्त्तस्यासंख्येयभेदत्वादिति ॥
इत्थं संक्षेपेण करणत्रये निरूपिते सुज्ञानमेवान्तरकरणमपीति तत्स्वरूपमाह-तादृशेति । अन्तर्मुहूर्त्तकालमानेत्यर्थः । तनिष्पादनकालोऽप्यन्तरकरणकाल एव, सोऽप्यन्तर्मुहूर्तपरिमाणः, प्रथमस्थितेः किञ्चिन्यूनोऽभिनवस्थितिबन्धाद्धया तु समानः, तथाहि प्रथमस्थित्यन्तरकरणे द्वे अपि अन्तर्मुहूर्तप्रमाणे युगपदारभते । अन्तरकरणप्रथमसमय एव चान्यं स्थितिबन्धं मिथ्यात्वस्यारभ्य स्थितिबन्धान्तरकरणे युगपदेव परिसमापयति । अन्तरकरणे च क्रियमाणे गुणश्रेणिसम्बन्धिनः संख्येया भागाः प्रथमद्वितीयस्थित्याश्रितास्तिष्ठन्ति, एकन्तु गुणश्रेण्यास्संख्येयतमं भागमन्तरकरणदलिकेन सहोत्किरति । तदित्थं अन्तरकरणस्थितेमध्याद्दलिकं कर्मपरमाण्वात्मकं गृहीत्वाधः प्रथमस्थितौ उपरि द्वितीयस्थितौ च प्रक्षिपति, एवं प्रतिसमयं तावत्प्रक्षिपति यावदन्तरकरणसत्कं सकलमपि तद्दलकमन्तर्मुहूर्तेन क्षीयते, अन्तरकरणादधस्तनी स्थितिः प्रथमा स्थितिरुपरितनी स्थितिद्वितीयेत्युच्यते, तत्र प्रथमस्थितौ वर्तमान उदीरणाप्रयोगेण प्रथमस्थितिसत्कं दलिकं समाकृष्योदयसये यत्प्रतिक्षिपति सोदीरणा, यत्तु द्वितीयस्थितेः सकाशात् उदीरणाप्रयोगेण समाकृष्योदयसमये प्रक्षिपति साप्युदीरणैव, आगाल इति नामान्तरेण प्रसिद्धा । उदयोदीरणाभ्यां प्रथमस्थितिमनुभवंस्तावद्गच्छति यावदावलिकाद्विकं