________________
सूत्र - ११-१२, सप्तमः किरणः
३४१
જે ઉપશમશ્રેણિને પ્રાપ્ત કરનારને તો મિથ્યાત્વ અને અનંતાનુબંધી ચાર કષાયોનો ઉપશમ કર્યું છતે સ્વ (ઉપશમ) શ્રેણિગત ઉપશમ સમ્યકત્વ હોય છે, એમ સમજવું.
શંકા - અંતરકરણજન્ય ઉપશમ સમ્યકત્વ જે કહ્યું, ત્યાં અંતકરણ એટલે શું? સમાધાન - ઉપશમ સમ્યક્ત્વમાં ઉપયોગી ત્રણ કરણના પ્રદર્શન દ્વારા તે અતંરકરણને કહે છે. અવતરણિકા - ત્યાં ત્રણ કરણનો અર્થ શો છે? આ શંકાના જવાબમાં કહે છે કેतत्र किं नाम करणत्रयमित्यत्राह
करणत्रयन्तु यथाप्रवृत्त्यपूर्वानिवृत्तिकरणरूपम् । आयुर्वर्जसप्तकर्मणस्थितिं पल्योपमासंख्येयभागहीनैककोटीकोटीपरिमाणां विधायाभिन्नपूर्वघनीभूतरागद्वेषात्मकग्रन्थिसमीपगमनानुकूलाध्यवसायो यथाप्रवृत्तिकरणम् । घनीभूतरागद्वेषग्रन्थिभेदनप्रयोजकापूर्वाध्यवसायोऽपूर्वकरणम् । मिथ्यात्वस्थितेरन्तर्मुहूर्तमुदयक्षणादुपर्यतिक्रम्योपरितनी विष्कम्भयित्वान्तर्मुहूर्त्तपरिमाणं तत्प्रदेशवेद्यदलिकाभावप्रयोजकाध्यवसायोऽनिवृत्तिकरणम् । तादृशतत्प्रदेशवेद्यदलिकाभावोऽन्तरकरणम् । १२ ।
करणेति । यथाप्रवृत्तिकरणमपूर्वकरणमनिवृत्तिकरणञ्चेत्यर्थः । यथाप्रवृत्तिकरणस्वरूपमाह आयुरिति । आयुष उत्कृष्टस्थितेस्त्रयस्त्रिंशत्सागरोपमरूपत्वात्सागरोपमकोटीकोट्यन्तर्गतत्वेन तद्भिन्नत्वमुक्तम्, एवञ्च यादृशाध्यवसायविशेषादनाभोगनिर्वतितात् तद्भिन्नानि ज्ञानावरणादिकर्माणि निखिलान्यपि पृथक्पृथक्पल्योपमासंख्यातभागहीनैकसागरोपमकोटीकोटीस्थितिकानि भवन्ति, ततश्च कर्कशकर्मपटलापहस्तितवीर्यविशेषैरसुमद्भिः कर्मपरिणामजनितो दुर्भेदोऽभिन्नपूर्वो घनरागद्वेषरूपो ग्रन्थिः प्राप्यते तादृशाध्यवसायविशेषो यथाप्रवृत्तिकरणमित्यर्थः । अधिकारी चास्य तथाभव्यत्वपरिपाकी किञ्चिन्यूनापार्धपुद्गलपरावर्तावशेषसंसारश्शुक्लपाक्षिकः, कृष्णपाक्षिकोऽभव्यो वा । आद्यो ग्रन्थिभेदं विधाय सम्यक्त्वं प्राप्नोति । द्वितीयस्त्वकृत्वा तद्भेदं पुनः परावर्त्तते । अस्यैवाथाप्रवृत्तकरणमपूर्वप्रवृत्तकरणमिति च नामान्तरम् । ग्रन्थि समतिक्रामतो यत्करणं तदाह-घनीभूतेति । ये समुदञ्चितादभ्रदुर्वारवीर्यप्रसरा उत्कर्षतोऽपार्धपुद्गलपरावर्तान्त विसंसारित्वेनासन्ननिर्वृतिसुखा अननुभूतपूर्वं तं ग्रन्थि येनाध्यव
१. अनादिकालादारभ्य यावद्ग्रन्थिस्थानं तावत्प्रथमं यथाप्रवृत्तकरणं भवति, कर्मक्षपणनिबन्धनस्याध्यवसायमात्रस्य सर्वदैव भावात्, अष्टानां कर्मप्रकृतीनामुदयप्राप्तानां सर्वदैव क्षपणात् । ग्रन्थि समतिक्रामतोऽपूर्वकरणं, प्राक्तनाद्विशुद्धतराध्यवसायरूपेण तेनैव ग्रन्थेर्भेदात् । अभिमुखसम्यक्त्वे जीवेऽनिवृत्तिकरणं भवति तत एवातिशुद्धतमाध्यवसायादनन्तरं सम्यक्त्वलाभात् ॥