________________
अथ सप्तमः किरणः
इत्थं संक्षेपतो द्वाचत्वारिंशद्विधानाश्रवानाख्याय कर्मग्रहणकारणभूताश्रवस्य प्रतिद्वन्द्विभूतमपूर्वकर्मप्रवेशनिषेधफलकं संवरं लक्षणप्रकाराभ्यामभिधातुं तल्लक्षणमाचष्टे
समित्यादिभिः कर्मनिरोधः संवरः । १ ।
समित्यादिभिरिति । समितिर्वक्ष्यमाणस्वरूपा सैवादिर्येषां गुप्तिपरीषहादीनां तैरुपायैः कर्मणामागन्तुकानां यो निरोधो निवारणं स संवर इत्यर्थः । उपात्तकर्मणां प्रध्वंसस्तु तपसा विपाकेन वा भवति । नन्वास्त्रवनिरोधो हि संवरः, उक्तञ्च 'आस्रवनिरोधः संवर' (९-१) इति, आस्रवाश्चेन्द्रियकषायादिरूपा न कर्मात्मकास्तथा च कथं कर्मनिरोधस्संवर उच्यत इति चेत्सत्यम्, कर्मागमनिमित्त आश्रवे निरुद्धे तत्पूर्वकस्यानेकदुःखबीजजनकस्य कर्मणोऽपि स्थगनात्कारणाभावस्य कार्याभावप्रयोजकतया तत्र प्रयोज्योपचारात्तथोक्तेरविरोधात् । प्रयोजकस्यैव वाऽऽश्रवनिरोधस्यात्र प्रयोज्योपचारतः कर्मनिरोधत्वोक्तेः । विनोपचारं निरुद्ध्यतेऽनेनेति व्युत्पत्त्या वा कर्मनिरोधपदेनाश्रवनिरोधस्यैव प्राप्तेः । तथानभिधानन्तु कर्मनिरोधस्याश्रवनिरोधप्रयुक्तत्वसूचनाय । एवं समित्यादयोऽप्याश्रवनिरोधे हेतुत्वेन संवरशब्दवाच्या भवन्ति । प्रायश्चेष्टारूपत्वात्समितयोऽपि गुप्तिविशेषा एव । चेष्टा हि कायवाङ्मनोव्यापारः, तत्रेर्यादाननिक्षेपोत्सर्गाः कायव्यापारे, एषणा मनोव्यापारे वाग्व्यापारे च भाषाऽन्तर्गता भवति । सुखबोधार्थमेव समितेः पृथगुपादानम् । तत्र रागद्वेषपरिणामात्मकार्त्तरौद्राध्यवसायान्निवृत्यैहिकामुष्मिकविषयेषु निराकृताभिलाषस्य पुंसो मनसो गुप्तत्वेन रागादिप्रत्ययं कर्म नास्रोष्यति, अप्रियादिवचनेषु वाग्व्यापारविरतस्य यथा शास्त्रं वाग्व्यवहरतो वाचो गुप्तत्वान्नाप्रियवचनादिहेतुकं कर्मास्रोष्यति, तथा कायोत्सर्गभाजः परित्यक्तहिंसादिदोषविषयकक्रियाकलापकस्य समयविहितक्रियानुष्ठायिनः कायस्य गुप्तत्वाद्धावनवल्गनानवलोकितभूचं