________________
सूत्र - १, षष्ठ किरणे
२८९ बीजाङ्करयोः कार्यकारणभाववत् । ननु बन्धास्रवयोरेतावता समतैव स्यान्न तु विशेषस्तथा चाऽऽश्रवहेतुबन्ध इत्यपि बन्धस्य लक्षणं स्यान्न चैतदस्ति, कषायाद्यनुविद्धस्य जीवस्य नूतनकर्मपुद्गलैः सह सम्बन्धो बन्ध इति लक्षणश्रवणादिति चेन्न, शरीरस्य स्नेहाभ्यङ्गाद्रेणुसंश्लेषवदास्रवस्योत्पत्त्यनन्तरमेव बन्धहेतुत्वात्, न चैवं बन्धस्य साक्षादाश्रवं प्रति हेतुत्वं, क्षेत्रकालादिसहकार्यपेक्षयोदयावस्थाप्राप्तस्यैव कर्मणोऽर्थक्रियाकारित्वात्, न तु बद्धमात्रेणास्रवं जनयितुमलम् । सोऽयमात्रवः पूर्वं द्विचत्वारिंशद्विधः प्रोक्तः । तत्र यद्यपि मनोवाक्कायानां शुभाशुभरूपा ये वीर्यान्तरायक्षयोपशमजन्या वीर्यप्राणोत्साहपराक्रमचेष्टाशक्तिसामर्थ्यादिशब्दवाच्या योगास्त एवास्रवाः, तत्र कायात्मप्रदेशपरिणामोऽशुभो हिंसास्तेयाब्रह्मादिरूपः, एतद्विपरीतश्शुभो गमनादिक्रियाहेतुः काययोगः । भाषायोग्यपुद्गलात्मप्रदेशपरिणामोऽशुभस्सावधानृतपरुषपिशुनादिरूपः, शुभ एतद्विपरीतरूपो वाग्योगः । मनोयोग्यपुद्गलात्मप्रदेशपरिणामोऽशुभोऽभिध्याव्यापादेासूयादिरूपः, शुभश्चैतद्विपरीतरूपो मनोयोग इति, तथापि विवक्षाभेदाद्विचत्वारिंशद्विधाः प्रोक्ताः । अयमाश्रवस्सकषायस्याकषायस्यापि भवति, तत्राकषायस्य वीतरागस्यैकसमयस्थितिककर्मण एवास्रवो भवति, सकषायस्य मिथ्यादृष्ट्यादिसूक्ष्मसम्परायान्तस्य तु संसारपरिभ्रमणकारणकर्मण एवास्रवो भवतीति बोध्यम् । यद्यपीन्द्रियकषायाव्रतयोगानां क्रियास्वभावानतिवृत्तेः क्रियावचनेनैवैषां गतार्थता, व्यापाराभाव इन्द्रियादीनामकिञ्चित्करत्वात्, तथापि क्रियास्वभावत्वमेतेषां न नियतं, नामस्थापनाद्रव्येन्द्रियादौ क्रियाभावात्, यद्वा नैवमेकान्ततस्तानि क्रियास्वभावान्यवेति, किन्तु द्रव्यार्थिकगुणभावे पर्यायार्थिकप्राधान्यात्स्याक्रियास्वभावानतिवृत्तिः, पर्यायार्थिकगुणभावे द्रव्यार्थिकप्राधान्यात्स्यात्क्रियास्वभावातिवृत्तिरिति । शुभाशुभाश्रवपरिणामाभिमुखत्वादिन्द्रियकषायावतानां द्रव्यास्रवत्वं, भावास्रवः कर्मादानं, तच्च पञ्चविंशतिक्रियाभिरास्रवति कर्मेत्येतदर्थमिन्द्रियकषायावतानामुपादानम् ॥
આશ્રવનિરૂપણ નામક છઠું કિરણ પુણ્ય અને પાપ રૂપ કર્મનું નિસ્પણ થઈ ગયું. હવે તેના પછી ઉદ્દેશગ્રંથમાં ગણાવેલ આશ્રવતત્ત્વને ४॥ छे.
શંકા - તે આશ્રવતત્ત્વ શું જીવસ્વરૂપી છે કે જીવપર્યાયસ્વરૂપી છે ? અથવા અજવસ્વરૂપી છે કે અજીવપર્યાયસ્વરૂપ છે ? કેમ કે-ચેતન કે અચેતન રૂપ બે પદાર્થોથી જુદા પદાર્થનો અભાવ છે. જો આશ્રવતત્ત્વ જીવ કે અજીવનો પર્યાય હોય, તો જીવ જ કહેવાય, અથવા જો અજીવ કે અજીવપર્યાય રૂપ હોય, તો અજીવ જ બને ને? આવી શંકાના સમાધાનમાં આશ્રવતત્ત્વનું લક્ષણ જણાવે છે.