________________
अथ षष्ठः किरणः ननु निरूपितं पुण्यपापरूपं कर्म, सम्प्रति तदनन्तरमुद्दिष्ट आस्रवो निरूपणीयः । तत्र स किं स्वरूपो जीवो वा तत्पर्यायो वा अजीवो वा तत्पर्यायो वा स्यात्, चेतनाचेतनात्मक पदार्थद्वयातिरिक्तस्याभावात्, जीवतत्पर्यायान्यतररूपत्वे जीव एव, अजीवतत्पर्यायान्यतररूपत्वे चाजीव एव भवेदित्याशङ्कायां लक्षणं निरूपयन् पदार्थं सूचयति
शुभाशुभकर्मग्रहणहेतुराश्रवः । १ । शुभाशुभेति । शुभाशुभरूपे ये कर्मणी पुण्यपापात्मकेऽष्टविधे, तयोर्यद्ग्रहणमुपादानं बन्धात्मकं तत्र हेतुः साक्षात्कारणं शुभाशुभाध्यवसायविशेषः परम्पराकारणञ्चेन्द्रियकषायाव्रतयोगक्रियाः, द्विविधो हेतुरास्रवपदार्थ इत्यर्थः । तथा च प्रतिक्षणं कर्मग्रहणव्यापृतस्वभावत्वाद्भवस्थजीवस्यावश्यं केनचिद्धेतुना भाव्यं, निर्हेतुकस्य कार्यस्यानुत्पत्तेः । तथा च सति यस्तत्र हेतुः स आश्रवः, स चार्हदर्चनवन्दनसर्वविरतितपःस्वाध्यायवीतरागप्रणिधानधर्मध्यानादिप्रशस्तानुष्ठानात् प्राणातिपातमृषावादकषायाद्यप्रशस्तकर्मभ्यश्च भवति, भवति हि यथाक्रमं सत्कृत्यासत्कृत्याभ्यामसतोरपि शुभाशुभाध्यवसायादिरूपयोः शुभाशुभाश्रवयोराविर्भावः, सतोश्च वृद्धिरिति भावार्थः, ननु शुभाशुभकर्मणामादानात्मकस्य बन्धस्य कारणमाश्रव इत्यायातं, तच्च न संभवति, बन्धाभावे आश्रवासंभवादन्यथा मुक्तस्यापि तदापत्तेः । यद्यास्रवमन्तरेणापि बन्ध इष्यते तर्हि कथमाश्रवस्य बन्धहेतुत्वं तदभावेऽपि जायमानं प्रति तस्य हेतुत्वासम्भवादिति चेन्मैवम्, उभयोरप्यन्योऽन्यं कार्यकारणभावाभ्युपगमात्, न च तर्हि बन्धाभावे नाश्रवस्तदभावे च न बन्ध इति परस्पराश्रयप्रसङ्ग इति वाच्यम्, बन्धाश्रवयोः कार्यकारणभावप्रवाहस्यानादितयोत्तरोत्तरं प्रति पूर्वपूर्वस्य कारणत्वाभ्युपगमेन तदनवकाशात्,