________________
अथ पञ्चमः किरणः अथावसरसङ्गत्या पापतत्त्वं निरूपयितुमुपक्रमते
दुःखोत्पत्तिप्रयोजकं कर्म पापम् । १ । दुःखोत्पत्तीति । विरोधिद्रव्योपनिपातादभिमतवियोगानिष्टसंयोगानिष्टश्रवणादेः पीडालक्षण आत्मनः परिणामो दुःखमित्यर्थः । दुःखोत्पत्तिप्रयोजकत्वे सति कर्मत्वं लक्षणं विशेषणानुपादाने सातादौ विशेष्यानुपादाने कालादिसमवाये व्यभिचारादुभयम् । न चेदृशदुःखोत्पत्तिप्रयोजकत्वे सति कर्मत्वस्यासातवेदनीय एव सत्त्वान्मतिज्ञानावरणादावव्याप्तिः । उक्तञ्च तत्त्वार्थसूत्रकृता-"दुःखशोकतापाक्रन्दनवधपरिदेवनान्यात्मपरोभयस्थानान्यसवेंदनीयस्ये"ति, ज्ञानदर्शनावरणादीनां प्रदोषनिह्नवादिजनकत्वेन न दुःखोत्पत्तिहेतुत्वमिति वाच्यम् । मतिज्ञानावरणादीनामपि परम्परया दुःखोत्पत्तिहेतुत्वात् साक्षाद्धि फलं प्रदोषनिह्नवादयः । ननु पुण्यमेकमेवास्तु न पापम्, न च दुःखोपपत्तिः कस्यापि न स्यादिति वाच्यम् । पुण्यस्य तारतम्येन तदुपपत्तेः । परां काष्ठामासादितस्य पुण्यस्यातिशयसुखं फलं, तस्यैव च तारतम्ययोगेनापकर्षात् सुखस्यापि हान्या तदपेक्षया तत्सुखस्य दुःखत्वम्, एवमेव परमजघन्यस्य पुण्यलेशस्य नरकदुःखं फलमिति कस्यापि दोषस्याभावात्पापलक्षणप्रणयनमसंगतमिति चेन्मैवम्, विनिगमनाविरहेणोभयस्यापि सिद्धेः । अनुभूयते हि सुखदुःखयो(जात्यम्, तच्च विजातीयमनुरूपं कारणमन्तरेण कथं हि भवेत्, तस्मादस्ति सुखस्यानुरूपं कारणं पुण्यं दुःखस्यानुरूपञ्च कारणं पापमिति । न च पुण्यपापे न सुखदुःखयोरनुरूपे कारणे, सुखदुःखयोरात्मपरिणामत्वात् पुण्यपापयोश्च पौद्गलिकत्वादिति वाच्यम्, सर्वथा कार्यानुरूपत्वस्य कारणेऽनिष्टत्वात् कार्याननुरूपत्वस्य वा, अपि तु सकलमपि वस्तु परस्परं तुल्यातुल्यरूपमेव।
१. विजायतीयकार्यदर्शनेनानुरूपेण विजातीयकारणेन भवितव्यमेवेत्याशयेनाहानुभूयत इति ।