________________
२१५
सूत्र - २७-२८, चतुर्थ किरणे મનુષ્યાયુ અને તિર્યંચાયુના સ્વરૂપને કહે છે
ભાવાર્થ- મનુષ્યભવના નિવાસના નિદાનભૂત આયુની પ્રાપ્તિમાં કારણભૂત કર્મ “મનુજ આયુ તિર્યંચભવના નિવાસમાં હેતુભૂત આયુષ્યની પ્રાપ્તિજનક કર્મ “તિર્યંચાય.”
| વિવેચન- અહીં લક્ષણ સ્પષ્ટ છે. મનુષ્યાયુષ્યની ઉત્કૃષ્ટ સ્થિતિ ત્રણ પલ્યોપમ, જઘન્ય સ્થિતિ શુલ્લક ભવ બસોછપ્પન આવલિકા પ્રમાણ અને અબાધાકાળ અંતર્મુહૂર્ત.
તિર્યંચના આયુષ્યનું લક્ષણ સ્પષ્ટ છે. પોતાના આયુષ્યની પરિસમાપ્તિ સુધી કોઈ પણ વખતે તિર્યંચોને મૃત્યુની ઇચ્છા નહિ હોવાથી આ તિર્યંચાયુષ્ય આનંદદાયી હોવાથી શુભ (પુણ્ય રૂપ) છે. તિર્યંચની ગતિ અને આનુપૂર્વી તો સંકિલષ્ટ અધ્યવસાયોથી આત્મસાત્ કરાતી હોવાથી અશુભ હોવાથી પાપ રૂપ છે. ઉત્કૃષ્ટ સ્થિતિ ત્રણ પલ્યોપમ અને જઘન્ય સ્થિતિ અંતર્મુહૂર્તની છે.
तीर्थकरनामकर्माह___ अष्टमहाप्रातिहार्याद्यतिशयप्रादुर्भवननिमित्तं कर्म तीर्थकरनाम । २८ ।
अष्टेति । 'अशोकवृक्षः सुरपुष्पवृष्टिदिव्यध्वनिश्चामरमासनञ्च । भामण्डलं दुन्दुभिरातपत्रं सत्प्रातिहार्याणि जिनेश्वराणा'मिति श्लोकेऽष्टौ प्रातिहार्याणि प्रतिपादितानि ग्राह्याणि । अष्टमहाप्रातिहार्याद्यतिशयप्रादुर्भावनिमित्तत्त्वे सति कर्मत्वं लक्षणम् । विशिष्टद्धियुक्तानां चक्रधरमादीनामुच्चैर्गोत्रेऽतिव्याप्तिवारणायाष्टविधप्रातिहार्यादीति । गणधरत्वन्तु श्रुतज्ञानावरणक्षयोपशमनिमित्तत्वान्न तीर्थकरनामवत् गणधरनामकर्मोपसंख्यानापत्तिः । न च तीर्थकरस्यापि श्रुतज्ञानावरणक्षयोपशमो वा चक्रधरादीनामिवोच्चैर्गोत्रविशेषो वा निमित्तमस्त्विति वाच्यं तीर्थप्रवर्तनफलत्वेन तीर्थकरनामकर्मणोऽभ्युपगमादिति । अस्योत्कृष्टा स्थितिः सागरोपमकोटीकोटेरन्तः । अबाधान्तर्मुहूर्तमेवमेव जघन्या स्थितिरपि किञ्चिन्न्यूना ॥ एतत्कर्मविंशतेः स्थानकानामाराधनात् सम्यक्त्वशालिना नृगतावेव तृतीये भवे निकाच्यते । केवलोत्पत्त्यनन्तरमस्योदयः, धर्मोपदेशनादिभिश्चैतदग्लान्या वेद्यत इति ।।
१. एतच्चकर्म मनुजगतिस्थ एव पुरुषः स्त्री नपुंसको वा तीर्थकरभवात्पृष्टतस्तृतीयभवं प्राप्य बध्नाति, बन्धोऽयं निकाचनारूपबन्धापेक्षया, अनिकाचनारूपस्तु तृतीयभवात्प्रागपि, तृतीयभवात्प्रागपि, जघन्यतोऽप्यन्तस्सागरोपमकोटीकोटिप्रमाणत्वात्, तत्र निकाचितमवन्ध्यफलमितरत्नभयथापि । निकाचनारूपश्च तृतीयभवादारभ्य यावत्तीर्थकरभवेऽपूर्वकरणस्य संख्येयभागाः, तत ऊर्ध्वं व्यवच्छेदः, केवलज्ञानोत्पत्ती चाष्टमहाप्रातिहार्यादिरूपे सुरेन्द्रकृते पूजोपचारे सति सदेवमनुजासुरायां परिषदि ग्लानिपरिहारेण धर्मदेशनया श्रुतचारित्ररूपधर्मप्ररूपणलक्षणया चतुस्त्रिंशता देहसौगन्थ्यादिभिरतिशयैः पञ्चत्रिंशता बुद्धिवचनातिशयैस्तद्वेद्यत इति भावः ॥