________________
सूत्र - १४, चतुर्थ किरणे
१९७ इति । अपक्वकपित्थादाविव कषायः, आम्लवेतसादाविवाम्लः शर्करादाविव मधुरः, कोशातक्यादाविव तिक्तः, शुण्ठ्यादाविव कटुः, लवणो मधुरान्तर्गत इत्येके, संसर्गज इत्यपरे । आद्या इति कषायाम्लमधुरा इत्यर्थः । अन्त्याविति तिक्तकटू इत्यर्थः । स्पर्शभेदानाह-स्पर्शोऽपीति । हंसरूतादाविव मृदुः, अर्कतूलादाविव लघुः, घृतादाविव स्निग्धः, वह्नयादाविवोष्णः, पाषाणादाविव कठिनः, वज्रादाविव गुरुः, भस्मादाविव रूक्षः, मृणालादाविव शीतः । आद्या इति मृदुलघुस्निग्धोष्णा इत्यर्थः, अन्त्या इति कठिनगुरुरूक्षशीता इत्यर्थः । अथागुरुलघुनामकर्मस्वरूपमाह-शरीरस्येति । चत्वारो हि परिणामाः पुद्गलानां गुरुत्वलघुत्वगुरुलघुत्वागुरुलघुत्वभेदात्, यस्य कर्मण उदयात्सर्वप्राणिनां शरीराणि स्वस्वापेक्षया नैकान्तेन लघूनि, तथात्वे वायुना विक्षिप्यमाणानां धारणासंभवात्, न चैकान्तेन गुरूणि, वोढुमशक्यत्वात्, किन्त्वगुरुलघुपरिणामपरिणतानि भवन्ति तदगुरुलघुनामकर्मेत्यर्थः । यदूर्ध्वं तिर्यग्वा प्रक्षिप्तमपि पुननिसर्गादधो निपतति तद्गुरुद्रव्यं यथा लेष्टवादि । यत्तु निसर्गत एवोर्ध्वगतिस्वभावं द्रव्यं तल्लघु यथा दीपकलिकादि । यत्तु नोर्ध्वगतिस्वभावं नाप्यधोगतिस्वभावं किन्तु स्वभावेनैव तिर्यग्गतिधर्मकं तद्रव्यं गुरुलघु यथा वाय्वादि । यत्पुनरूधिस्तिर्यग्गतिस्वभावानामेकतरस्वभावमपि न भवति सर्वत्र वा गच्छति तदगुरुलघु यथा व्योमपरमाण्वादि। व्यावहारिकनयमिदं । निश्चयतस्तु एकान्तेन गुरुस्वभावं, अतिलघोरपि वाय्वादेः करताडनादिनाऽधोगमनादिदर्शात् । अतो नैकान्तेन गुरु लघु वा किमपि वस्त्वस्ति । किन्तु यत्किमप्यत्र लोके औदारिकवर्गणादिकं भूभूधरादिकं वा बादरं वस्तु तत्सर्वं गुरुलघु, शेषं तु भाषाऽऽनपानमनोवर्गणादिकं परमाणुव्यणुकव्योमादिकञ्च सर्वं वस्त्वगुरुलध्विति बोध्यम् । एवञ्च निश्चयनयेन कस्यापि शरीरस्य लघुत्वाभावात् गुरुत्वाभावाच्च गुरुलघुत्वमेव कार्मणातिरिक्तस्य, तत्रागुरुलघुत्वप्रयोजकं कर्म सर्वशरीरिणामित्याशयेनाह-सर्वेषामिति एतदिति, अगुरुलघुनामकर्मेत्यर्थः, भवतीति शेषः । अत्रागुरुलघुपदेन लघुगुरुपरिणामद्वयस्यैव निरासो बोध्यः, न तु अगुरुलघुनामपरिणामस्यैकस्य ग्रहणम् । व्यवहारनयापेक्षया त्वन्योऽन्यापेक्षया शरीराणि लघूनि गुरूणि अगुरुलघून्यपि भवन्तीति विज्ञेयम् । अस्य पञ्चेन्द्रियवदेवोत्कृष्टा जघन्या च स्थिति व्या । अथ पराघातस्वरूपं निरूपयति-परत्रासेति ।
१. निश्चयनये औदारिकवैक्रियाहारकतैजसद्रव्याणि बाहररूपत्वाद्गुरुलघूनि, कार्मणमनोभाषादिद्रव्याणि त्वगुरुलघूनि, बादरनामकर्मोदयवर्तिजीवानां शरीराणि बादराण्यन्यानि गुरुलघूनि, सूक्ष्मनामकर्मोदयवर्तिजीवशरीराणि सूक्ष्मपरिणतानीतराण्यगुरुलघूनि । तथा च गुरुलघुकं शरीरं प्रतीत्य नारकादयो गुरुलघुकाः, जीवं कार्मणञ्च प्रतीत्यागुरुलघुका इति ।