________________
१९६
तत्त्वन्यायविभाकरे प्रशस्तवर्णादिनामकर्मणो लक्षणमाह- .
शरीरवृत्त्याह्लादजनकवर्णोत्पत्तिहेतुभूतं कर्म प्रशस्तवर्णनाम । शरीरवृत्त्याह्लादजनकगन्धोत्पत्तिनिदानं कर्म प्रशस्तगन्धनाम । शरीरेष्वाह्लादजनकरसोत्पत्तिकारणं कर्म प्रशस्तरसनाम । शरीरवृत्त्याह्लादजनकस्पर्शोत्पादनिदानं कर्म प्रशस्तस्पर्शनाम । इमानि प्रशस्तवर्णचतुष्कशब्दवाच्यानि । तत्र शुक्लरक्तपीतनीलकृष्णाः पञ्च वर्णाः । आद्यास्त्रयः प्रशस्ताः । अन्त्यौ द्वावप्रशस्तौ । सुरभ्यसुरभिभेदेन गन्धो द्विविधः । आद्यश्शस्तः, अन्त्योऽशस्तः । रसः कषायाम्लमधुरतिक्तकटुरूपेण पञ्चविधः । आद्यास्त्रयश्शुभाः अन्त्यावशुभौ । स्पर्शोऽपि मृदुलघुस्निग्धोष्णकठिनगुरुरूक्षशीतभेदादष्टविधः । आद्याश्चत्वारः प्रशस्ताः, अन्त्यास्त्वप्रशस्ताः । शरीरस्यागुरुलघुपरिणामप्रयोजकं कर्म अगुरुलघुनाम । सर्वेषां जीवानामेतत् । परत्रासप्रज्ञाप्रहननादिप्रयोजकं कर्म पराघातनाम । उच्छ्वासनिःश्वासप्राप्तिप्रयोजकं कर्मोच्छ्वासनाम । १४ ।
शरीरवृत्तीति । स्वशरीरवृत्तीत्यर्थः । वर्ण्यतेऽलङ्क्रियते गुणवत्क्रियते शरीराद्यनेनेति वर्णः शुक्लादिः । यदुदयादौदारिकादिशरीरेषु आह्लादजनकस्य नेत्रानन्दकरस्य वर्णस्योत्पत्तिस्तत्प्रशस्तवर्णनामेत्यर्थः । अप्रशस्तवर्णनामकर्मण्यतिव्याप्तिनिरासायाह्लादजनकेति, प्रशस्तगन्धनामादिकर्मण्यतिव्याप्तिव्युदासाय वर्णेति । असंभववारणाय शरीरवृत्तीति । अस्य पञ्चेन्द्रियवत्परा जघन्या च स्थितिर्विज्ञेया । प्रशस्तगन्धनामाह-शरीरवृत्तीति, गन्ध्यते आघ्रायत इति गन्धः, लक्षणपदकृत्यं स्थितिश्च प्रशस्तवर्णवद्बोध्या । प्रशस्तरसनामाहशरीरेष्विति । कृत्यं स्थितिश्च प्रशस्तवर्णवदेव । प्रशस्तस्पर्शनामाह-शरीरवृत्तीति इदमपि प्रशस्तवर्णवद्बोध्यम्, इमानीति, प्रशस्तवर्णगन्धरसस्पर्शनामकर्माणीत्यर्थः, प्रशस्तेति विभागवाक्यस्थेत्यादिः । वर्णादयः कतिविधास्तेषु के प्रशस्ता इत्याशंकायामाह-तत्रेति । स्फटिकादाविव शुक्लः, हिङ्गलकादाविव रक्तः, हरिदाविव पीतः, प्रियङ्गपर्णादाविव नीलः, कज्जलादाविव कृष्णो वर्णो भाव्यः । आद्यास्त्रय इति शुक्लरक्तपीतवर्णा इत्यर्थः,प्रशस्ता इतिप्रायश आशयवशात्प्राणिनां वल्लभास्सन्तस्सुखात्मकात्मपरिणामोपकारिण इति भावः । अन्त्याविति, नीलकृष्णावित्यर्थः, अप्रशस्ताविति । अनिष्टौ द्वेष्यौ सन्तौ स्वाशयापेक्षया दुःखात्मकात्मपरिणामोपकारिणाविति भावः । गन्धभेदमाह-सुरभीति । श्रीखण्डादाविव सुरभिः, लशुनादाविव दुरभिः । आद्य इति, सुरभिरित्यर्थः, शस्त इति सौमुख्यकारित्वादिति भावः । अन्त्य इति दुरभिरित्यर्थः, अशस्त इति वैमुख्यकारित्वादिति भावः । रसभेदमाह-रस