________________
सूत्र - १२, तृतीय किरणे
- १३१
पश्चाद्भावित्वरूपे एवात्र ग्राह्ये । अथ वर्तनां स्वरूपयति-तत्रेति चतुर्विधेषु पर्यायेष्वित्यर्थः । द्रव्याणां स्थितिश्चतुविधा, सादिसान्ता, साधनन्ता, अनादिसान्ता, अनाद्यनन्ता चेति । आसु केनचिद्रूपेण द्रव्यस्य वर्तनमित्यर्थः, तत्र द्रव्यं चेतनाचेतनभेदाद्विविधम् । सचेतनस्य सुरत्वनारकत्वतिर्यक्त्वमनुष्यत्वपर्यायमधिकृत्य सादिसान्ता स्थितिः । प्रत्येकं सिद्धत्वापेक्षया साद्यनन्ता सिद्धानां । भव्यत्वमाश्रित्य भव्यानामनादिसान्ता, सिद्धत्वप्राप्तौ भव्यत्वनिवृत्तेः । अभव्यत्वमुररीकृत्याभव्यजीवानामनाद्यनन्ता विज्ञेया । अचेतनेषु व्यणुकादिस्कन्धानां सादिसान्ता स्थितिः, उत्कृष्टतोऽप्येकेन द्वयणुकत्वादिपर्यायेण पुद्गलद्रव्यस्यासंख्येयकालमात्रस्थितेः । अनागताद्धाया भविष्यत्कालरूपाया साद्यनन्ता, अतीताद्धाया अतिक्रान्तकालरूपाया अनादिसान्ता, धर्माधर्माकाशादीनां अनाद्यनन्ता बोध्या । प्रोक्तचतुर्विधस्थित्यन्यतमरूपेण स्वयमेव वर्तमानानां पदार्थानां समयाश्रया वर्तनशीलता वर्तनेति भावः । इयमिति, समयाश्रयेत्यर्थः । तस्मादेव कापि वर्तना न द्वित्र्यादिसमयवर्तिनी अत एव परिवर्तनशीला तदेव परिवर्तनं पर्याय उच्यत इत्याह-नात इति । क्रियापर्यायमाख्याति-भूतकाले भूता इति । करणं हि क्रिया स द्रव्यपरिणामविशेषो यथा वर्तमानत्वमतीतत्वमनागतत्वञ्चेति, आकाशप्रदेशावल्यामङ्गली वर्तते अतीताऽनागता चेति अङ्गलीनिष्ठा वर्तमानत्वातीतत्वानागतत्वपर्यायाः कालाश्रयाः क्रियारूपा द्रव्यस्य, समयानाश्रयत्वेऽतीत एव वर्तमानोऽनागतश्च स्यात्, एवमनागतो वर्तमानश्च सङ्कीर्येत, न चैतदिष्टम्, ततश्च समयभेदेन भूतसमयराश्यपेक्षया भूता अङ्गल्यादीनां क्रियाः, वर्तमानसमयापेक्षया भवन्त्यः, अनागतसमयराश्यपेक्षया भविष्यन्त्यः क्रियाः पर्याया उच्यन्ते, सा क्रिया त्रिधा प्रयोगविस्रसामिश्रजन्यभेदात्, तत्र प्रयोगजा जीवक्रियापरिणामसम्प्रयुक्ता शरीराहारवर्णगन्धरसस्पर्शसंस्थानविषया, विस्रसाजन्या प्रयोगमन्तरेण केवलमात्मद्रव्यपरिणामरूपा, परमाण्वभ्रेन्द्रधनुःपरिवेषादरूपा विचित्रसंस्थाना च, मिश्रजन्या तु प्रयोगवित्रसाभ्यामुभयपरिणामरूपत्वाज्जीवप्रयोगसहचरिता चेतनद्रव्यपरिणामा कुम्भस्तम्भादिविषयेति बोध्या । एवंरूपत्वेऽपि क्रियायाः पदार्थानां भूतत्वभविष्यत्ववर्तमानत्वविशिष्टा गतिक्रियारूपाः क्रियापर्यायत्वेन ग्राह्याः, कालानुकूलत्वात् । अथ परिणाममाह प्रयोगेति । स्पष्टं, तदुक्तं "द्रव्याणां या परिणतिः प्रयोगविस्रसादिजा । नवत्वजीर्णताद्या च परिणामस्स कीर्तित" इति । यद्यपि परिणामः क्रियाविशेष एव तथापि परिणामेन स्थितेस्सङ्ग्रहात्क्रियातो भेदेनोत्कीर्तनम् । न च परिणाम एवोच्यतां किं क्रियया, तस्या अपि तत्रान्तर्गतत्वादिति वाच्यम् । द्रव्याणां द्वैविध्यप्रकाशनाय तदुपादानात्, द्रव्यं हि द्विविधं परिस्पन्दरूपमपरिस्पन्दरूपमिति, तत्र परिस्पन्दः क्रिया, अपरिस्पन्दः परिणाम इति ॥