________________
१३०
तत्त्वन्यायविभाकरे
કાળનો આ વિભાગસમૂહ ઉપચાર છે, માટે કલ્પિત જાણવો, કેમ કે-સમય એક હોવાથી વિભાગનો અભાવ છે. સમય રાશિમાં ગૌણપણું હોવાથી જ વિભાગનો અસંભવ છે. પરંતુ સમૂહબુદ્ધિમાં સ્વીકાર કરેલ કાળનો વિભાગ જાણવો.
अथ कालो नास्तिकायपञ्चकव्यतिरिक्तः किन्तु जीवाजीवद्रव्यपर्याय एव वर्त्तनादिक्रियारूपः । स च वर्तितुर्भावादनान्तरं कालस्तत्परिणामत्वात्, कलनं संशब्दनं पर्यायाणामिति व्युत्पत्तेः । तथा च तेन तेन रूपेण सादिसान्तादिरूपेण नवपुराणादिरूपेण वा वर्त्तनैव द्रव्यसम्बन्धित्वाद् द्रव्यकाल उच्यते, जीवाजीवौ वा पर्यायपर्यायिणोरभेदोपचारात् । न खलु वर्तनापरिणामादिभ्यो भिन्नं द्रव्यमस्ति, समयावलिकादिरूपोऽपि नृक्षेत्रगः कालो न जीवाजीवेभ्य व्यतिरिक्तः, सूर्यादिक्रियैव हि परिणामवती कालो नान्यः । पर्यायरूपत्वेन तस्यैकत्वेऽपि किञ्चिन्मात्रविशेषविवक्षया द्रव्यकालोऽद्धाकाल इत्यादिव्यपदेशः । तस्मात्तदुपचरितं द्रव्यमुच्यत इत्याशयेनाह
वस्तुतस्तु कालोऽयं न द्रव्यात्मकः । किन्तु सर्वद्रव्येषु वर्तनादिपर्यायाणां सर्वदा सद्भावादुपचारेण कालो द्रव्यत्वेनोच्यते । वर्तनादिपर्यायाश्च वर्तनाक्रियापरिणामपरत्वापरत्वरूपेण चतुर्विधाः । तत्र सादिसान्तसाधनन्तानादिसान्तानाद्यनन्तभेदभिन्नेषु चतुःप्रकारेष्वेकेनापि केनचित्प्रकारेण द्रव्याणां वर्तनं वर्त्तनेत्युच्यते । इयं वर्तना प्रतिसमयं परिवर्तनात्मिका, नातो विवक्षितैकवर्तना द्विसमयं यावदपि स्थितिं कुरुते । अतो या वर्तनायाः परावृत्तिस्सा पर्यायत्वेनाभिधीयते । भूतकाले भूता भविष्यति भविष्यन्त्यो वर्तमानकाले च भवन्त्यो या द्रव्याणां चेष्टास्सः क्रियापर्यायः । प्रयोगविस्त्रसापरिणामाभ्यां जायमाना नवीनत्वप्राचीनत्वलक्षणा या परिणतिस्स परिणामः । १२ ।
वस्तुतस्त्विति । न द्रव्यात्मक इति, अपि तु पर्यायात्मक इति भावः । तहि द्रव्यकाल इति कथमित्यत्राह-किन्त्विति, तथा च पर्यायपर्यायिणोरभेदोपचारादिति भावः । अथ कालस्वरूपानुपकारभूतान् वा वर्तनादीन्निदर्शयति वर्तनादीति । तत्र द्रव्याणां वर्त्तनं वर्त्तना । देशान्तरप्राप्त्यादिलक्षणा चेष्टा क्रिया । द्रव्यस्य स्वजात्यपरित्यागेन परिस्पन्देतरप्रयोगजपर्यायस्वभाव: परिणामः । यदाश्रयतो द्रव्यं परापरव्यपदेश्यं ते परत्वापरत्वे, परत्वं पूर्वभावित्वमपरत्वं पश्चाद्भावित्वमिति । यद्यपि परत्वापरत्वे प्रशंसाकृते क्षेत्रकृतेऽपि भवतः । तथा परो धर्मोऽपरोऽधर्म इति, अत्र परत्वं ज्ञानत्वमपरत्वमज्ञानत्वं । एकदिक्कालावस्थितयोरयं परोऽयमपर इति, अत्र परत्वं विप्रकृष्टत्वं सन्निकृष्टत्वमपरत्वं बोध्यम्, तथापि कालप्रसङ्गेन पूर्व