________________
सूत्र - १६, द्वितीय किरणे
८५
અહીં આ પર્યાપ્તિઓના સ્વરૂપોનું નિરૂપણ તત્ત્વાર્થભાષ્યના અનુસારે કરેલ છે. પ્રવચન આદિના અનુસારે તો બાહ્ય આહારનું ગ્રહણ અને ખલ (મલ અને મૂત્ર રૂપ) તથા રસ (સાત ધાતુ રૂપે પરિણમનને યોગ્ય જલના જેવો પ્રવાહી પદાર્થ) રૂપે પરિણમાવવામાં પ્રયોજક રૂપ નિમિત્ત એવી વિશિષ્ટ આત્માની શક્તિ 'माहारपर्याप्ति' 'हेवाय छे.
अथ शरीर पर्याप्तिमाह
गृहीतशरीरवर्गणायोग्यपुद्गलानां शरीराङ्गोपाङ्गतया रचनक्रियासमाप्तिश्शरीरपर्याप्तिः । १६ ।
गृहीतेति । सामान्यतो गृहीतानां शरीरवर्गणागतयोग्यपुद्गलानां शरीराङ्गोपाङ्गतया या रचनक्रिया-विरचनात्मिका क्रिया सा परिसमाप्यते यतः, स शक्तिविशेषश्शरीरपर्याप्तिः । लक्षणद्वयमिदं तत्त्वार्थोक्तमौदारिकवैक्रियाऽऽहारकशरीरत्रयेऽपि सङ्गच्छते । तत्राऽऽहारपर्याप्तिरौदारिकशरीरिणामाहारपुद्गलग्रहणखलरसीकरणप्रयोजिका, इतरेषां शरीरयोग्यपुद्गलग्रहणप्रयोजिका, इयञ्च पर्याप्तिस्सर्वेषां समयप्रमाणा, उपपातक्षेत्रे प्रथमसमय एवाहारकत्वात्, औदारिकशरीरिणां शेषाः पर्याप्तय: प्रत्येकमन्तर्मुहूर्तेन कालेन निष्पाद्यन्ते, सर्वासां पर्याप्तीनां च परिसमाप्तिकालोऽप्यन्तर्मुहूर्त्तप्रमाणः, अन्तर्मुहूर्त्तानामसंख्यभेदभिन्नत्वात् । वैक्रियाहारकशरीरिणान्तु आहारेन्द्रियोच्छ्वासभाषामनः पर्याप्तयः पञ्चाप्येकेनैव समयेन समाप्यन्ते, शरीरपर्याप्तिः पुनरन्तर्मुहूर्त्तेनेति भाव्यम् । प्रवचनादिषु तु रसीभूताहारस्य रसासृङ्मांसभेदोऽस्थिमज्जाशुक्रलक्षणसप्तधातुरूपतया परिणमनहेतुः शक्तिविशेषश्शरीरपर्याप्तिः इदं पूर्वोक्तञ्च लक्षणद्वयमौदारिकशरीर एव संगच्छते, इतरशरीरयोरसृङ्मांसमेदसादिमयत्वाभावात् । अत्र च तादृशशक्त्युत्पादनद्वारा शरीराङ्गोपाङ्गादिनामकर्माणि, साक्षात् निर्माणबन्धनसंघातननामकर्माणि केषाञ्चिन्मतेनाऽऽनुपूर्वीनामकर्म च निमित्तानि भवन्ति । एषां सत्तारूपेण वर्त्तमानानामप्युदय एव शरीरादीनां निष्पत्तेः । अङ्गोपाङ्गानां नियतस्थानवृत्तिताप्रयोजकत्वात्, गृहीतानां गृह्यमाणानाञ्च शरीरपुद्गलानामन्योन्यसंश्लेषकारित्वात्, शरीरत्वेन परिणतपुद्गलानामन्योन्यसन्निधानेन व्यवस्थापकत्वाच्च । केषाञ्चिन्मतेनानुपूर्व्या अङ्गोपाङ्गानां निर्माणनिर्मितानां प्रतिनियतस्थानवृत्तिताप्रयोजकत्वोपगमादिति ॥
હવે શી૨૫ર્યાપ્તિને જણાવે છે કે
ભાવાર્થ- ‘ગ્રહણ કરાયેલા શરીરવર્ગણાના યોગ્ય પુદ્ગલોને શરીર રૂપે અને તેના અંગ-ઉપાંગ રૂપે રચવાની ક્રિયાની સમાપ્તિ જે શક્તિ વડે થાય છે, તે વિશિષ્ટ શક્તિ ‘શરી૨૫ર્યાપ્તિ' કહેવાય છે.