________________
सूत्र - १३, द्वितीय किरणे __ आत्मन इति । पौद्गलिको यः क्रियाविशेषस्तस्य परिसमाप्तिर्यया साऽऽत्मनिष्ठा पर्याप्तिशब्दवाच्या शक्ति:-करणविशेषः । पर्यापनं समापनं पर्याप्तिरिति नार्थः किन्तु पर्यापनं यत इति व्युत्पत्त्या समाप्तिसाधनं ग्राह्यम् । एवं यस्याः शक्तेस्सत्त्वे जीव आहारादिग्रहणाय समर्थो भवति सा, सा च शक्तिर्यैः पुद्गलोपचयनिर्वय॑ते ते पुद्गलोपचया अपि जीवेन गृहीतशक्त्युत्पत्तिजननपरिणमनाभिमुखा: पर्याप्तिशब्देनोच्यन्ते । एतद्विपरीता-अशक्तिः, तन्निवर्तक पुद्गलासम्बन्धो वाऽपर्याप्तिः, न च समाप्तिः पर्याप्तिशब्दवाच्या, क्वचिदपि ग्रन्थेऽनुक्तत्वात्, न च क्रियापरिसमाप्तिः पर्याप्तिरिति तत्त्वार्थभाष्ये श्रूयत इति वाच्यम् । अभिप्रायापरिज्ञानात्, क्रियायाः परिसमाप्तिर्यत इति व्युत्पत्तेः । अत एव भाष्यटीकायां "पर्याप्तिः पुद्गलरूपाऽऽत्मनः कर्तुः करणविशेषः । येन करणविशेषेणाऽऽहारादिग्रहणसामर्थ्यमात्मनो निष्पद्यते, तच्च करणं यैः पुद्गलैनिर्वय॑ते ते पुद्गला आत्मनाऽऽत्तास्तथाविधपरिणतिभाजः पर्याप्तिशब्देनोच्यन्त" इति दृश्यते । नचैवं न हि भाष्यकाराभिप्राय इति वाच्यम्, आसां युगपदारब्धानामपि क्रमेण समाप्तिरुत्तरोत्तरसूक्ष्मतरत्वादिति स्वयमेवोक्तत्वात्, न ह्यासामितिपदेन समाप्तिरूपा पर्याप्तिर्विवक्षिता समाप्तेरारम्भासम्भवात्, क्रमेण समाप्तेरसंभवाच्च । अत एव सामर्थ्यवाचिपर्याप्तिशब्दस्य कथं नामकर्मरूपत्वमित्याशङ्कायामुक्तं 'पर्याप्तिनिर्वर्तकं पर्याप्तिनाम, अपर्याप्तिनिर्वर्तकमपर्याप्तिनामेति शक्तिप्रयोजकपुद्गलोपचयस्य नामकर्मत्वमाविष्कृतमिति सूक्ष्मधिया विचारणीयम् । तथा चात्मसम्बन्धी पुद्गलोपचयजन्यक्रियाविशेषपूर्णताप्रयोजकशक्तिविशेषः, तादृशशक्तिनिमित्तपुद्गलोपचयो वा पर्याप्तिरिति भावः ॥
શંકા- પૂર્વોક્ત સાત પ્રકારવાળો જીવ પર્યાપ્ત અને અપર્યાપ્તના ભેદથી ચૌદ પ્રકારવાળો છે- એમ જે કહેવાય છે, ત્યાં પર્યાપ્ત શબ્દનો અર્થ કહેવો જ જોઈએ. જો પર્યાપ્તનો અર્થ ન કહેવામાં આવે, તો ચૌદ ભેદોનું જ્ઞાન શું સુલભ બને ખરું કે ? સમાધાન- આવી શંકાના સમાધાનમાં હવે પર્યાપ્ત શબ્દની પ્રવૃત્તિમાં નિમિત્તભૂત પર્યાપ્તિને દર્શાવે છે કે
ભાવાર્થ- જે શક્તિ વડે વિશિષ્ટ પૌદ્ગલિક ક્રિયાની સમાપ્તિ થાય છે, તે આત્માની શક્તિને પર્યાપ્તિ हेछ.'
વિવેચન-પુદ્ગલની વિશિષ્ટ ક્રિયાની સમાપ્તિ જે શક્તિ વડે થાય છે, તે કરણવિશેષ રૂપ આત્મામાં હેલી શક્તિ એ પર્યાપ્તિ શબ્દથી વાચ્ય બને છે.
१. उक्तञ्चान्यत्र पुद्गलोपचयजः पुद्गलग्रहणपरिणमनहेतुश्शक्तिविशेष इति । अन्यत्र च "आहारसरीरेंदिय ऊसासवओमणोऽहिनिवित्ती। होइ जओ दलियाओ करणं एसा उ पज्जत्ती" इति ।