________________
૫૦
શ્રી તત્ત્વાર્થાધિગમસૂત્ર અધ્યાય-૯
सूत्र हु
स्नेहः गार्द्धार्यादि, संयमसाधनं रजोहरणादीत्येवं धारयति, न पुनः रागादियुक्तः शोभाद्यर्थं एवंविधस्य भावदोषस्य परित्यागः सर्वप्रकारः त्याग उच्यते ।
सम्प्रत्याकिञ्चन्यस्वरूपनिरूपणायाह- उक्तेन न्यायेन भावदोषत्यागं कृत्वा बाह्योपकरणं रजोहरणपात्राद्युपभुञ्जानोऽपि अकिञ्चन एव भवति, शरीरमाश्रयमात्रमात्मनो यदा च तत् त्यागार्हमशुचि त्वग्मांसास्थिपञ्जरं केवलं धर्म्मसाधनचेष्टायाः संयमभरक्षमायाः सहायके वर्त्तते तदिदं शकटादावक्षोपाञ्जनवदाहारादिनोपग्राह्यं, नत्ववयवसन्निवेशशोभार्थमिति, निर्ममत्वमाकिञ्चन्यं, धर्मोपकरणं रजोहृत्यादि प्रमार्जनादिकार्यप्रसाधनाय व्याप्रियत इति संयमोपकरणमत्रापि निर्ममत्वमाकिञ्चन्यमिति ।
ब्रह्मचर्यस्वरूपनिर्दिधारयिषया प्राह-व्रतपरिपालनायेत्यादि आकिञ्चन्यव्यवस्थितो ब्रह्मचर्यं परिपालयेत्, तच्च ब्रह्मचर्यं गुरुकुलवासलक्षणं, गुरुकुलवासो ब्रह्मचर्यमिति, बृहत्त्वादात्मा ब्रह्म ब्रह्मणि चरणमात्मारामत्वमरक्तद्विष्टात्मनि व्यवस्थानं अब्रह्मणश्च विनिवृत्तिर्व्रतं, मैथुनवर्जनं प्राधान्येन, तत्परिपालनाय गुरुकुले वसितव्यं, यद्यपि मनोज्ञामनोज्ञविषयरागविरागविमुक्तिर्ब्रह्मचर्यं तथापि प्रधानत्वेन विवक्षा मैथुननिवृत्तेरेव, तत्परिपालनार्थं च भगवद्भिर्नव गुप्तय उपदिष्टाः, वसतिकथानिषद्येन्द्रियकुड्यान्तरपूर्वक्रीडितप्रणीताहारातिमात्रभोजनविभूषणाख्याः, ज्ञानसंवर्द्धनार्थं च गुरुकुलवासो, यथोक्तमार्षे
" णाणस्स होइ भागी थिरयरओ दंसणे चरित्ते अ । धण्णा आवकहाए गुरुकुलवासं न मुंचति ॥ १॥" कषायाः क्रोधादयः तेषां परिपाकः परिणतिरुपशमः क्षयो वा तदर्थं च गुरुकुलवासोऽभ्युपेयः, गुरुरहितस्य हि परिणामवैचित्र्याद्विकथादिदोषादसज्जनसम्पर्कादसत्क्रियासङ्गादनु श्रोतोगामित्वदोषात् सद्य एव मोक्षमार्गाद् भ्रंशः स्यात्, तस्माद् आप्राणिताद् गुरुकुलवास आश्रेयः,