________________
____४८
सूत्र-६
શ્રી તત્ત્વાર્થાધિગમસૂત્ર અધ્યાય-૯ पार्श्वशायिनो निषण्णस्य वा कल्पते स्थातुं, दिव्यमानुषतैर्यग्योनानुपसर्गान् सहमानस्येति, अन्यत् पूर्ववत्, द्वितीयां सप्तरात्रिकीप्रतिमामारुढस्य तदेव चतुर्थभक्तमपानकं च, स्थानं तस्य दण्डायतं लगण्डशायिता उत्कुटकासनं वा, तृतीयामपि सप्तरात्रिकी प्रतिज्ञामारूढस्य चतुर्थभक्तमपानकं च, स्थानं पुनरस्य गोदोहिका वीरासनं आम्रकुब्जता चेति, अहोरात्रिकी प्रतिपन्नस्य प्रतिमां षष्ठभक्तमपानकं च, बहिर्गामादेश्चतुरङ्गुलान्तरौ चरणौ विधाय लम्बितबाहोः कायोत्सर्गः स्थानमेकं, शेषं पूर्ववत्, एकरात्रिकी प्रतिमां कुर्वतोऽष्टमभक्तमपानकं, ग्रामादेर्बहिरीषत्प्राग्भारगतेन कायेनैकपुद्गलनिरुद्धदृष्टिरनिमिषनयनो यथाप्रणिहितगात्रः सुगुप्तेन्द्रियग्रामः कायोत्सर्गावस्थायी दिव्यमानुषतैरश्चानुपसर्गान् सम्यक्तितिक्षते यस्तस्य भवतीति । सप्तचतुर्दशैकविंशतिरात्रिक्यस्तित्र इति, नेदं पारमर्ष-प्रवचनानुसारि भाष्यं, किं तर्हि ?, गीतप्रमत्तमेतत्, वाचको हि पूर्ववित् कथमेवंविधमार्षविसंवादि निबध्नीयात्, सूत्रानवबोधादुपजातभ्रान्तिना केनापि रचितमेतद्वचनकं 'दोच्चा सत्तराइंदिया तइया सत्तराइंदिया' इति द्वितीया सप्तरात्रिकी तृतीया सप्तरात्रिकीति सूत्रनिर्भेदः, द्वे सप्तरात्रे त्रीणि सप्तरात्राणीति सूत्रनिर्भेदं कृत्वा पठितमज्ञेन सप्तचतुर्दशैकविंशतिरात्रिक्यस्तिस्त्र इति ।
एवं तपः प्रकीर्णकमभिधाय त्यागाभिधित्सया आह- बाह्याभ्यन्तरोपधिशरीरानपानादिराश्रयो यस्य तस्यैवंविधस्य भावदोषस्य परित्यागस्त्यागोऽभिधीयते, न हि निरालम्बनो भावदोषः समस्ति, यथा ह्यशुभं तपसा नादत्ते प्राक्तनं च त्यजति, एवं बाह्योपकरणादित्यागोऽपि संवृणोत्याश्रवद्वाराणि, तत्रोपकरणं बाह्यं रजोहरणपात्रादि स्थविरजिनकल्पयोग्योपधिः दुष्टवाङ्मनसोऽभ्यन्तरं क्रोधादिश्चातिदुस्त्यज उपधिः, शरीरं वाऽभ्यन्तरोपधिरनपानं च बाह्यमादिग्रहणादौपग्रहिकं च बहिर्निषद्यादण्डकादि आश्रयभूतं भावदोषस्य भवति, भावदोषो मूर्छा