________________
શ્રી તત્ત્વાર્થાધિગમસૂત્ર અધ્યાય-૯
अथवा आदिशब्दसंगृहीता द्वादश भिक्षुप्रतिमाः, तत्प्रदर्शनार्थमाहतथा द्वादश भिक्षुप्रतिमा मासिक्याद्या इति मासिकी आदिर्यासां ता मासिक्याद्याः, तथेति प्रदर्शनार्थ:, द्वादशेति इयत्तानिरूपणाय सङ्ख्या, भिक्षुः- उद्गमोत्पादनैषणादिशुद्धभिक्षाशी, प्रतिमाः प्रतिज्ञाः, मासः प्रयोजनमस्या इति मासिकी मासेन परिसमाप्तिमायातीत्यर्थः, आ सप्तमासिक्याः सप्तेति विभागं दर्शयति, द्वित्रिचतुःपञ्चषट्सप्तमासाख्याः, एवमेताः सप्त, तथाऽपरास्तिस्रः, प्रथमा सप्तरात्रिकी द्वितीया सप्तरात्रिकी तृतीया सप्तरात्रिकी चेति, एवमेता दश, अपरे द्वे - अहोरात्रिकी १ एकरात्रिकी २ चेत्येवं द्वादश, तत्र मासिकीप्रतिज्ञामारुढः साधुर्भोजनस्यैकां दत्तिमादत्ते, तथा पानस्य, दायिका च एलुकस्यान्तः पदमेकं विन्यस्यापरं बहिर्व्यवस्थाप्य तां दत्तिं यदि ददाति ततः कल्पते, आदिमध्यावसानगोचरत्रयहिण्डी पेडा अर्द्धपेडा गोमूत्रिका पतङ्गवीथिः सम्बुक्कावृत्तिः गतप्रत्यागता चेति षड्विधगोचर भूमिचारी, एवंविधतपश्चारीति यत्र ज्ञायते तत्रैकरात्रिं कल्पते वासः, यत्र न ज्ञायते तत्रैकरात्रं वा अहोरात्रद्वयं वा वस्तुं कल्पते, न परतः, याचनाप्रच्छनानुज्ञापनप्रश्नव्याकरणभाषी आगमनविकटनगृहकवृक्षमूलोपाश्रयत्रयपरिभोगकारी पृथिवीकाष्ठयथाSSस्तीर्णसंस्तारकत्रयशायी, कश्चित्तदध्यासिते प्रतिश्रये अग्निं लगयेत्ततो दाहभयान्न निष्कामेत, कण्टकादिकं पादलग्नमक्षितो वा रेणुकादि नो निर्हरेत्, जलस्थलादिषु यत्रास्तमेति तपनः ततः स्थानादेकमपि पदं न प्रयाति, विगतजीवेनापि पानकेन हस्तपादादिप्रक्षालनं न करोति, संमुखमापततो दुष्टाश्वहस्त्यादेः पदमेकं पश्चान्नापसर्पेत्, एवमादिभिर्नियमविशेषैर्विचित्रा एषा मासिकी प्रतिमेति द्विमासप्रतिमामारूढस्यान्धसो द्वे दत्ती पानस्य च, शेषचर्या पूर्ववत्, एवमुत्तरास्वपि यावन्तो मासास्तावत्य एव दत्तयोऽपि यावत् सप्तमासिक्यां सप्त दत्तयः, शेषं प्रथमप्रतिमावद्विधानं, प्रथमसप्तरात्रिकीं प्रतिमामारुढस्य चतुर्थभक्तमपानकं ग्रामादेर्बहिरुत्तान
४८
सूत्र