________________
४७
सूत्र
શ્રી તત્ત્વાર્થાધિગમસૂત્ર અધ્યાય-૯ सर्वतोभद्रमुच्यते, तिर्यगूर्वं कर्णयोश्च सर्वत्र दिनराशिः तुल्यः, पञ्चदशपरिमाण इति,
अथवा क्षुल्लकस्य सर्वतोभद्रस्य द्वितीयो विकल्प:-चतुर्थषष्ठाष्टमदशमद्वादशानि अष्टमदशमद्वादशचतुर्थषष्ठानि द्वादशचतुर्थषष्ठाष्टमदशमानि षष्ठाष्टमदशमद्वादशचतुर्थानि दशमद्वादशचतुर्थषष्ठाष्टमानीति ।
सम्प्रति महत्सर्वतोभद्रं भण्यते-सप्त गृहाणि कृत्वा तिर्यगूर्वं च चतुर्थषष्ठाष्टमदशमद्वादशचतुर्दशषोडशभक्तानि चतुर्दशषोडशचतुर्थषष्ठाष्टमदशमद्वादशभक्तानि दशमद्वादशचतुर्दशषोडशचतुर्थषष्ठाष्टमानि षष्ठाष्टमदशमद्वादशचतुर्दशषोडशचतुर्थानि षोडशचतुर्थषष्ठाष्टमदशमद्वादशचतुर्दशानि द्वादशचतुर्दशषोडशचतुर्थषष्ठाष्टमदशमानि अष्टमदशमद्वादशचतुर्दशषोडशचतुर्थषष्ठानि ।
भद्रोत्तररचना-द्वादशचतुर्दशषोडशाष्टादशविंशतिभक्तानि अष्टादशविंशतिद्वादशचतुर्दशषोडशभक्तानि चतुर्दशषोडशअष्टादशविंशतिद्वादशभक्तानि विंशतिद्वादशचतुर्दशषोडशाष्टादशभक्तानि षोडशाष्टादशविंशतिद्वादशचतुर्दशभक्तानीति, दिनानि पञ्चत्रिंशद्भद्रोत्तरम् ।
तथाऽपरं तपः आचाम्लवर्द्धमानं, अलवणारनालौदनलक्षणमाचाम्लं तद्वर्द्धमानं यत्र तपसि तदाचाम्लवर्द्धमानं तस्य प्ररूपणा-प्राक्तावदाचाम्लं ततः चतुर्थभक्तं द्वे आचाम्ले पुनश्चतुर्थभक्तं त्रीण्येवाचाम्लानि पुनश्चतुर्थभक्तं चत्वार्याचाम्लानि पुनश्चतुर्थभक्तं पञ्चाचाम्लानि पुनश्चतुर्थभक्तंएवमेकैकमाचाम्लं वर्धयता चतुर्थभक्तं च विदधता तावद्वर्धयितव्यं यावदाचाम्लशतं पूर्ण पर्यन्ते चतुर्थभक्तं, कालपरिमाणमस्य चतुर्दश वर्षाणि मासत्रयं विंशतिदिवसाश्चेति ।
सर्वतोभद्रमित्येवमादीत्यादिग्रहणादनेकप्रकारं तपोऽस्ति प्रकीर्णकमिति ज्ञापयतीति पारमर्ष एव प्रसिद्धं प्रवचने,