________________
४६ શ્રી તત્ત્વાર્થાધિગમસૂત્ર અધ્યાય-૯
સૂત્ર-૬ महतः सिंहविक्रीडितस्य रचना-चतुर्थषष्ठे चतुर्थाष्टमे षष्ठदशमे अष्टमद्वादशे दशमचतुर्दशे द्वादशषोडशे चतुर्दशाष्टादशे षोडशविशे अष्टादशद्वाविंशे विंशतिचतुर्विशे द्वाविंशतिषड्विशे चतुर्विंशत्यष्टाविंशे षड्विशतित्रिंशद्भक्ते अष्टाविंशतिद्वात्रिंशद्भक्ते त्रिंशच्चतुस्त्रिंशद्भक्ते, ततो द्वात्रिंशद्भक्तं, ततः परमाद्यार्द्धमेव चतुस्त्रिंशद्भक्तादिकं प्रतिलोमं विरचनीयं यावत् पर्यन्ते चतुर्थभक्तमिति, अस्य च कालो वर्षमेकं षण्मासा दिनान्यष्टादश, एष कालश्चतुर्गुणो वर्षाणि षण् मासद्वयं दिनानि द्वादश, शेषं पूर्ववत् । __ तथा परं तपः सप्तसप्तमिकाद्याः प्रतिमाश्चतस्रः सप्तसप्तमिका अष्टाष्टमिका नवनवमिका दशदशमिकाश्चेति, तत्र सप्त सप्तकाः प्रथमायामहोरात्राणाम्, एकोनपञ्चाशदिवसा इत्यर्थः, अष्टावष्टकाः अष्टाष्टमिकायामहोरात्राणां, चतुःषष्टिदिनानीति, नवमनवमिकायां एकाशीतिरहोरात्राणि, दशमदशमिकायां दिवसशतं, सर्वत्र प्रथमाद्यासु अहोरात्रसङ्ख्यासु एकैकभिक्षाशित्वं, सर्वत्रेति चतसृष्वपि प्रतिमासु, प्रथमे सप्तके प्रथमेऽष्टके प्रथमे नवके प्रथमे च दशके प्रतिदिनमेकैकभिक्षाशित्वं, द्वितीये सप्तकेऽष्टके नवके दशके च द्विभिक्षाशित्वं, एवं शेषेष्वपि सप्तकादिषु एकैकभिक्षावृद्धिः कार्या यावत् सप्तमे सप्तके सप्त भिक्षा अष्टमेऽष्टौ नवमे नव दशमे दश भिक्षाशित्वमिति,
तथाऽन्यत्तपः सर्वतोभद्रमिति, द्विविधं तत्-क्षुल्लकसर्वतोभद्रं महासर्वतोभद्रं चेति, तत्र प्रथमस्य प्रस्तारविधिर्भण्यते, पञ्च गृहकाणि कृत्वा तिर्यगूर्वं च ततो रचना तपसः कार्या-चतुर्थषष्ठाष्टमदशमद्वादशानि प्रथमपङ्क्तौ, द्वितीयस्यां दशमद्वादशचतुर्थषष्ठोष्टमानि, तृतीयायां षष्ठाष्टमदशमद्वादशचतुर्थानि, द्वादशचतुर्थषष्ठाष्टमदशमानि चतुर्थ्यां, पञ्चम्यामष्टमदशमद्वादशमचतुर्थषष्ठानि, पारणादिवसाः पञ्चविंशतिः, कालो मासत्रयं दिनानि दश, एष एव चतुर्गुणः वर्षमेकं मासो दश दिनानीति