________________
सूत्र-६
શ્રી તત્ત્વાર્થાધિગમસૂત્ર અધ્યાય-૯ गुरुकुलवासेन चास्वतन्त्रीकृतस्य ज्ञानदर्शनचरणव्रतभावनागुप्त्यादिपरिवृद्धिः, अत एव साधोईिसंगृहीतत्वमाचार्योपाध्यायाभ्यां, निर्ग्रन्थ्याःसाध्व्यास्तु प्रवर्तिनीसंगृहीतत्वं च, तदेव च पर्यायशब्दैराख्यातमादराधानार्थमस्वातन्त्र्यं गुर्वधीनत्वं गुरुनिर्देशावस्थायित्वमिति । आचार्यग्रहणाच्च पञ्चाचार्याः प्रोक्ताः, प्रव्राजकः व्रतादेरारोपयिता, दिगाचार्यः सचित्ताचित्तमिश्रवस्त्वनुज्ञायी, श्रुतोद्देष्टा श्रुतमागममुद्दिशति यः प्रथमतः, एवं उद्दिष्टगुर्वपाये तदेव श्रुतं समुद्दिशत्यनुजानीते वा यः स्थिरपरिचितकारयितृत्वेन सम्यग्धारणानुप्रावचनेन च स श्रुतसमुद्देष्टा, समुद्देशानुज्ञयोरेककालत्वात् समुद्देशसंगृहीतमनुज्ञानं, आम्नायः-आगमस्तस्योत्सर्गापवादलक्षणोऽर्थस्तं वक्तीत्याम्नायार्थवाचकः, पारमार्षप्रवचनार्थकथनेनानुग्राहकोऽक्षनिषद्यानुज्ञायी पञ्चम आचार्यः तस्य ब्रह्मचर्यस्येत्यादि पुनरपि तद्रक्षणदृढीकरणार्थं ब्रह्मचर्यस्य विशेषगुणाः ख्याप्यन्ते, इमे इति प्रत्यक्षीक्रियन्ते, विशेषेण-अतिशयेनोपकारित्वाद्विशेषगुणा अब्रह्मविरतिव्रतस्य यथोक्ता भावनाः प्राक् पञ्च, स्त्र्यङ्गालोचनापूर्वरतिस्मृतिवृष्यरसकामकथनेभ्यः संसक्तादावसथाच्च विरतयो भावनाः ब्रह्मणः, इष्टाश्च शुभा ये स्पर्शादयः शरीरविभूषणा च तत्रानभिनन्दित्वं-तत्प्राप्तावप्यपरितुष्टिर्मनसोऽप्रसादः अरक्तद्विष्टतेत्येवं ब्रह्मचर्यं जायत इति, तदेवं क्षमया क्रोधं निहन्यात्, निहतक्रोधो नीचैर्वृत्त्यनुत्सेकाभ्यां मार्दवं धारयेत्, त्यक्तमदस्थान आर्जवं भावयेद्, भावदोषवर्जनेन निगूढदोषां मायामार्जवेन प्रकटीकृत्य शौचमाचरेत् अलोभसंश्रयेण, लोभाशुचित्वमलोभशौचेन संशोध्य शुद्धात्मा सत्यं ब्रूयात्, सत्यभाषी सप्तदशविधं संयममनुतिष्ठेत्, संयतात्मा शेषाशयविशोधनार्थं तपश्चरेत्, ततो बाह्यान्यपि धर्मसाधनानि सृजेत्, विद्यमानेष्वपि कायवाङ्मानसेषु धर्मोपकरणेषु सुहृत्सम्बन्धिषु च निःस्पृहत्वान्निर्ममत्वाख्यमाकिञ्चन्यं भावयेत्, सत्याकिञ्चन्ये ब्रह्मचर्यं परिपूर्णं भवतीति ॥९-६॥