________________
४१
सूत्र-६
શ્રી તત્ત્વાર્થાધિગમસૂત્ર અધ્યાય-૯ न सभ्यमसभ्यं-सभासु विगर्हितं, विदग्धसभासु गुह्यप्रकटनमर्मोद्घट्टनवचनवत्, तस्य प्रतिषेधो नासभ्यमनसभ्यं, चपलः-अनालोचितभाषी तद्वचनमपि चपलं तच्च दोषाक्षेपि भवति, आविलं-कलुषं कषायवशवर्त्तिनो वचनं नाविलमनाविलं प्रसन्नवचनमितियावत् विरलं विश्रम्यभाषणं सविच्छेदत्वाच्च श्रोतुरनादरवाक्यव्याहरणाच्छ्वणवैरस्यं करोति न विरलमविरलमनुसंततमिति, सम्भ्रान्तमुत्त्रासकरं न संभ्रान्तमसंभ्रान्तं, अतित्वरितं वा संभ्रान्तमनुच्छसन् भाषते यद् अव्यक्तवर्णपदालापत्वाद् अप्रत्यायकं वा श्रुतिविरसाक्षरमप्ररोचकमेव स्यात्, मधुरमिति प्रसन्नपदघटितं श्रुतिसुखं सुखावबोधार्थं च, अभिजातं सप्रश्रयं सविनयं संदिग्धमाकाङ्क्षानिवर्त्तने अक्षमं तद्विपरीतमसंदिग्धम्आकाङ्क्षाविच्छेदकारि निराकाङ्क्षमिति, अस्फुटमनिश्चितार्थत्वादालूनविशीर्णप्रायं विनिश्चितार्थं स्फुटं, अनौदार्य अत्यौद्धत्यदीपकं तद्विपरीतमौदार्य, अप्रधानार्थं अनौदार्य उदारार्थप्रतिबद्धत्वादुदारं तद्भाव
औदार्यं तद्युक्तमौदार्ययुक्तं, विद्वज्जनमनोरञ्जने असमर्थं ग्राम्यं न ग्राम्यमग्राम्यं पदार्थांश्च विवक्षितानभिव्याहरतीति पदार्थाभिव्याहारं अग्राम्यत्वात् पदार्थानभिव्याहरतीति विद्वज्जनाभिमतान् इत्यग्राम्यपदार्थाभिव्याहारं, शीभरं विकत्थकं विमर्दकरं न शीभरमशीभरं आश्वेव प्रस्तुतार्थपरिसमाप्तकारि, अरागद्वेषयुक्तमिति मायालोभाभ्यां कोपमानाभ्यां चायुक्तं, सूचनात् सूत्रं गणधरप्रत्येकबुद्धस्थविरग्रन्थितं तस्य यो मार्गः उत्सर्गापवादलक्षणः तदनुसारेण प्रवृत्तार्थं, प्रस्तुतार्थादनपेतमर्थ्य, शुश्रुषुर्जनोऽर्थी तस्य भावः-चित्तं तद्ग्रहणसमर्थं तदावर्जनसमर्थं, तदेवंविधं आत्मपरानुग्रहसमर्थं भवति, निरुपधं-मायारहितं देशे यद् यत्र यस्यार्थस्य प्रसिद्धं तद्देशोपपन्नमविरुद्धं कालोपपन्नं यद्यत्र काले भण्यमानं न परस्योद्वेगकारि भवति, प्रस्तावापेक्षमित्यर्थः, अनवद्यमगर्हितं अर्हच्छासनं द्वादशाङ्गं प्रवचनं तत्र तेन वा प्रशस्तमनुज्ञातं यतं प्रयत्नसहितं