________________
४०
શ્રી તત્ત્વાર્થાધિગમસૂત્ર અધ્યાય-૯
सूत्र-६ मिश्रवस्तुविषयः, लोभदोषाच्च क्रोधमानमायाहिंसाऽनृतस्तेयाब्रह्मपरिग्रहार्जनमलजालेनोपचीयमान आत्मा भवत्यशुचिः, तत्रालोभो लोभाभावो, न क्वचिन्ममत्वं, अलोभस्य हि लोभदोषनिर्मुक्तत्वानिर्भयत्वं, ततः स्वपरहिताभिप्रवृत्तिरित्येतदेव शौचलक्षणं मुख्यमात्मनः, एतदेव स्पष्टयति-भावविशुद्धिर्ममत्वाभावो निस्संगता अपराद्रोहेणात्मार्थानुष्ठानं निष्कल्मषता निर्मलता धर्मसाधनमात्रा:-रजोहरणमुखवस्त्रिकाचोलपट्टकपात्रादिलक्षणास्तास्वप्यनभिष्वङ्गो, विगतमूर्च्छ इत्यर्थः, यस्मादशुचिर्भावकल्मषसंयुक्तो, भावकल्मषं च लोभकषायः तस्मात्तत्त्यागः । शौचं धर्म इति, शरीरमहाव्रणप्रक्षालनादि द्रव्यशौचं, तच्च प्रासुकैषणीयेन जलादिना निर्लेपनिर्गन्धतापादनमागमोक्तेन विधिना कार्यमिति ।
अवसरप्राप्तं पञ्चमं धर्माकं निर्दिदिक्षुराह-सत्यर्थे भवं वचः सत्यं सद्विद्यमानोऽर्थोऽनेकधर्मा, तस्मिन् सत्यर्थे भवं यथावस्थितार्थप्रतिपत्तिकारि सत्यं, नन्वेवं सति लुब्धकाय मृगाख्यानमपि सत्यं स्यात्, एवं तर्हि सच्छब्दः प्रशंसार्थः, प्रशस्तोऽर्थः सन्-न पापहेतुः तस्मिन् सति भवं सत्यं, पक्षान्तरसमाश्रयणं वा-सद्भ्यो वा हितं सत्यमिति, सन्तो जीवा एव गृह्यन्ते, हितशब्दोपादानात्, न ह्यजीवसम्बन्धि किञ्चित् हितमस्ति अतोऽप्रशस्तार्थव्यावृत्तिः, सामान्येन वा जीवाजीवेभ्यो हितं, अनेकपर्यायकलापभाजोऽर्थाः तेषां यथावस्थितविवक्षितपर्यायप्रतिपादनं सत्यं, एतदेव तेभ्यो हितं यद्यथार्थप्रतिपादनमिति, तस्येदानी सत्यवचनस्य विशेषगुणानाचष्टे-तदननृतमिति, अनृतं-भूतनिह्नवः अभूतोद्भावनं विपरीतकटुकसावद्यादिवचनं, नानृतमननृतं, ननु च सत्यपर्याय एवायं, सत्यमेतत्, तथापि वक्ष्यमाणोत्तरगुणव्याप्त्यर्थं पुनर्वचनं, परुषं-रूक्षं स्नेहरहितं निष्ठुरं-परपीडाकारि न परुषमपरुषं, तत्राविनयेषु माध्यस्थ्यभावना विनयेषु तु सौम्यवाग् अपरुषं, पिशुनं-प्रीतिविच्छेदकारि द्वयोर्बहूनां वा सत्यासत्यदोषाख्यानात्, न पिशुनमपिशुनं, सभाहँ सभ्यं